2023-02-24 17:17:40 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क ३३-३४ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
[ ७७
ट्यात् । अपि च, हे स्वाहे ! अग्निभायें ! स्वस्थापि मा भैषी, प्रन्यच्च,
हे देवस्त्रियः ! इयं रो (27b ) हिणी मुधा रोदितीव, क्व स्वभर्त्तरि विषये, कथंभूते
स्वभरि मृतभुवि अमृतस्य भूः स्थानं अमृतभूः तस्मिन् अमृतभुवि, यस्तु
अमृतभूः स कि म्रियते; प्रत्यच्च, हे लक्ष्मि ! श्रीवत्सलक्ष्मोरसि श्रीवत्सो लक्ष्म
चिह्नं यस्य स श्रीवत्सलक्ष्मा तस्य उरस्तस्मिन् त्वं पुरा वससि वत्स्यसीत्यर्थः,
• यावत् पुरा निपातयोर्लट् परेति वा पाठः ! लक्ष्मी: श्रीविष्णूरसि परा उत्कृष्टा
वसतु, पूर्वं दैत्यभयात् मलिना आसीत्, साम्प्रतं निर्मला सती वसतु, क्व सति
शत्री हते सति ॥ ३३॥
सं० व्या० - ३३. विद्राणेन्द्राणीति ॥ हिमवतोऽपत्यं हैमवती गौरी तस्याः
हेपितं लज्जितं जयति हेपितमिति हेपः नपुंसके भावे त-प्रत्ययः, कि विशिष्टाया
हैमवत्याः हतरिपो: हतो रिपुमंहिषो यया तस्याः हतरिपोः, क्व सत्यां हेपितं जयायां
प्रतीहार्यामित्येवमाश्वासयन्त्यां सम्बोधयन्त्यां, कं स्वर्गस्त्रैणं स्त्रीपुंसाभ्यां 'नञस्नञा-
विति तद्धिते नज्ञ,' स्वर्गे स्वर्गस्य वा स्त्रैणमिति तत्पुरुषः, किंविशिष्टं स्वर्ग स्त्रैणं
आत्तं पीड़ितं, महिषासुरो यद्रवेणेति कथमाश्वासयन्त्या मित्याह, विद्राणेन्द्राणीति
श्रादि, हे इन्द्राणि ! इन्द्रपत्नि ! त्वं कि विद्राणा विषण्णा न पश्यसि, अस्मत्स्वामिन्या
महिषवधः कृत इति भावः, हे द्रविणददयिते ! धनदप्रिये ! पश्य अवलोकय सख्यं
स्वसंख्या: कर्म्म महिषवघाख्यं संख्यमिति सख्युर्य इति य प्रत्ययः कस्याः सख्यं
स्वसंख्या: गौर्याः इत्यर्थः; हे अग्निदयिते ! स्वाहे ! स्वस्था निराकुला तिष्ठ,
भर्त्तरि अग्नौ अमृतभुजि सति 'अमृतं हि विधिना यदग्नौ हूयते', कोऽर्थः महिषवधे
सति द्विजेष्टिर्भव्येन भविष्यति मुधा वृथा रोहिणी चन्द्रपत्नी रोदितीव; हे लक्ष्मि!
कमले ! श्रीवत्सलक्ष्मोरसि श्रीकृष्णस्योरसि पुरावत् वत्स्यसि इति इंदानीं पुनः
सुखेन वससि, यावत् पुरानिपातनयोर्लडिति भविष्यति लट्-वर्तमानः ॥ ३३॥
निर्वाणः किं त्वमेको रगशिरसि शिखिन् शार्ङ्गधन्वाऽपि विध्य-
स्तत्ते धैर्यं क्व यातं जहिहि जलपते ! दीनतां त्वं न दीनः ।
शक्ता ते शत्रुभग्ने' भयपिशुन सुनासीर नासीरधूलि -
धिंग्यासि क्वेति जल्पन् रिपुरवधि यथा सा बता पार्वती वः ॥३४॥
कुं० वृ० – सा पार्व्वती वो युष्मान् अवतात् रक्षतु, सा का यया शत्रुर्महिषो-
i
१. ज० का० शक्तो नो शत्रुभङ्ग ।
२. ज० का० पार्वती पातु सा वः ।