This page has not been fully proofread.

७६ ]
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क ३२-३३ व्याख्या
 
कथ्यते, श्रुतस्ते कि आधिक्यम्, एतस्याः पुनराधिक्यं अस्ति वृषात् महिषस्य
अधिक बलत्वात् ॥३२॥
 
सं० व्या० - ३२. सद्य इति ॥ शिवा गौरी वो युष्मान् पातु रक्षतु, कि
कृतवती उद्धृतवती उत्क्षिप्तवती, कि शूलं आयुध विशेषं, किंविशिष्टं शूलं सद्य:-
साधितसाध्यं सद्यस्तत्क्षणं साधितः साध्यो महिषो येन तत् तथोक्त, क्व सति
सुरद्वेषिणि प्रोतप्रान्तविषक्त एव संलग्न एव देवशत्री किंभूते महिषा-
कारे महिष आकारो यस्येति विग्रहः, किंविशिष्टा शिवा अर्द्धस्मिता इत्येवं
जयया प्रतीहार्या केली परिहासे कृते सति तमेव केलिदृष्ट्या देवेत्यादिना दर्शयति,
हे देव ! भट्टारक ! यदि वृषध्वजो वृषभचिह्नो दिष्ट्या वर्द्धसे एषाऽपि नः,
स्वामिनी शिवा गौरी महिषध्वजा महिषकेतुः सञ्जाता, वृषभमहिषयो: पशुत्वात्
सदृशचिह्ने युवयोर्द्वयोः सम्प्रति जाते, इति भावः ॥३२॥
 
विद्राणेन्द्राणि ! किं त्वं द्रविणददयिते ! पश्य संख्यं स्वसख्याः
स्वाहे ! स्वस्था स्वभर्त्तर्यमृतभुवि मुधा रोहिणी रोदितीव ।
लक्ष्मि ! श्रीवत्सलक्ष्मोरसि वससि पुरेत्यार्त्तमा श्वासयन्त्यां
स्वर्गस्त्रैणं जयायां जयति हतरिपोह पितं हैमवत्याः ॥ ३३॥
 
.
 
कुं० वृ० - हिमवतोऽपत्यं हैमवती तस्या हेपितं लज्जितं जयति, भवति हि
मव [ ह] तां लज्जा प्रत्यत्सं [क्ष] प्रभाववर्णनतः, कस्मिन् समये तदित्याह, इति एवं..
प्रकारेण जयायां स्वर्गस्त्रैणं स्वर्गस्त्रीसमूहं आश्वासयन्त्यां सुखयन्तीं (न्त्यां), किं-
भूतं स्त्र णं, प्रात्तं भीमं [तं], केन प्रकारेण हे इन्द्राणि ! इन्द्रभायें ! त्वं कि
विद्रावणा(विद्राणा); संयोगादेरातोधातोर्यणवत इति जननिष्ठाकस्य अंजाद्यतष्टापू,
गता पलाय्य गता, इदानों धीरा भव मध्यदेशप्राकृतभाषानुसारेण संस्कृतं इव तत्र
विद्राणेत्युच्यते; अन्यच्च, हे द्रविण्ढदयिते ! धनदभार्ये! त्वं अपि भयं मा कार्षीर्यतः
स्वसख्याः स्ववयस्यायाः संख्यं सङ्ग्रामं पश्य वीक्षस्व, एतदुक्तं भवति यत्र इत्थं शक्ति-
रूपा देवी स्वयं युध्यते तत्र किं अस्माकं भयं भवति सखीं त्वं सोत्तराशा ऐशान्याशानैक-
१. ज० सख्यं ।
 
२. ज० का० स्वभत्तंर्यमृतभुजि । श्रमृतसूजीत्यपि अभ्यत् पाठान्तरं काव्यमालाप्रती
दर्शितम् ।
 
३. क० हैमवत्या ।