This page has not been fully proofread.

पद्याङ्क ३१.३२ व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ७५
 
कलुषिता महिषकलुषिता भगवता शम्भुना मान्या सती मूर्ध्नि विधता अनया रीत्या
महतां खलु दोषो भवतीति उपहासार्थः ॥३१॥
 
सं०व्या० - ३१. मेरौ मे इति ॥ उमा गौरी वो युष्माकं ईती: उपद्रवान्
भिन्द्यात् भिन्दतु, किंभूता शमिताराति: शमितो व्यापादितः प्ररातिः शत्रुर्यया
सा तथोक्ता, किं कुर्वती हसन्ती पति भत्तर इति; तदाह, मेरा वित्यादि, महिषेति
तृतीये पादे सम्बोधनपदं तदिहापि संबोध्यते, हे महिष ! मेरी देवाद्री रौद्रशृङ्ग-
क्षतवपुषि सति नैव मे रुषः कोपा : इतोऽप्यपरो महान् अपराध इति भावः, रौद्रं
च तत् शृङ्गं च तेन क्षतं वपुः शरीरं यस्य मेरो: इति विग्रहः । नदीनां भर्तारः
समुद्राः यत् रिक्ततां नीताः प्रापिताः तदपि हितमुपकारमभूत्, निःसपत्नो विगत-
शत्रुः, अत्र कोऽपि कश्चित् यत्तदत्राभिप्रायः अस्मदीयः पतिः सरितो भर्त्ता तस्य
नदीनां भर्तारः सपत्ना भवन्त्यतः तद्रिक्तीकरणेनास्माकं त्वया प्रत्युपकृतं नाप-
राद्धमिति, एतन्नो मृष्यते नो क्षम्यते यत्तु महिषकलुषिता कलुषीकृता स्वर्धुनी
गङ्गा किंविशिष्टा मान्या पूज्या शम्भोरस्मत्प्रभोः क्व शिरसि मूनि अत एव
शम्भोमन्येति उक्तम् ॥३१॥
 
Ĵ
 
सद्यःसाधितसाध्यमुद्धृतवती शूलं शिवा पातु वः
पादप्रान्तविलग्न' एव महिषाकारे सुरोषिणि ।
दिष्ट्या देव वृषध्वजो यदि भवानेषाऽपि नः स्वामिनी
सञ्जाता महिषध्वजेति जयया केलौं कृतेऽर्द्धस्मिता ॥३२॥
 
कुं० वृ० – शिवा शिवभार्या पार्वती वः पातु युष्मान् रक्षतु किं कृतवती
शूलं उद्धृतवती अर्थात् महिषस्कन्धात्, किविशिष्टं शूलं सद्यःसाधितसाध्यं
. साधितं महिषवधलक्षणं साध्यं येन तत्तथा, क्व सति महिषाकारे सुरद्वेषिणि
पादप्रान्तविलग्ने एवं सति, पादस्य प्रान्तोऽयं तत्र विलग्नः पादप्रान्तविलग्नस्त-
स्मिन् चरणप्रान्ते विलग्ने एवेति, किंविशिष्टा भवानी, जयया केली इति कृते
क्रीडायां कृतायां अर्द्धस्मिता अर्द्ध स्मितं यस्याः सा तथोक्ता ईषद्हसना इत्यर्थः,
इतीति कि, हे देव ! यदि भवान् वृषभध्वज: तहि दिष्ट्या देवेन मङ्गलं एतत्,
एषाऽपि नोऽस्माकं स्वामिनी महिषध्वजा सञ्जाता, हे ईश ! लोकंर्यंदि वृषध्वजः
कथ्यसे तदेतन्मा त्वं ज्ञासीर्यतो मां एवं लोका वृषध्वजं कथयन्ति, न त्वां, इति
कुतो यत एषाऽपि नोऽस्माकं स्वामिनी महिषध्वजा सञ्जातेति तैर्महिषध्वजा
 
१. ज० प्रोतप्रान्तविषक्त; का० पादप्रान्त विषक्त ।
 
..