We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

**.
 
७४ ]
 
महाकविवाण-विरचितं
 
चण्डीशतकम्
 
[ पद्याङ्क ३०-३१ व्याख्या
 
महिषशिरसि कृतः प्रह्लादो दैत्यो दिशोऽगात्; हासः स्त्रिया दूपणं, तो हे सन्नताङ्गि !
एकं महिपं न व्यथयसि अन्यान् अपि व्यथयसि, अन्यान् कान् येऽत्र युध्यन्त एव न
आयुष्यमान-व्यथनात् दोप इति परिहासार्थः ॥ ३० ॥
 
सं० व्या० - ३०. क्षिप्तो वारण इति ॥ पत्युः शङ्करस्य परीहासः परिहासः
'प्रादीनां घणि बहुलमिति दीर्घः' पतिपरिहासेन तुष्टा भवानी भवपत्नी वो युष्मान्
 
तु रक्षतु, कथं पतिपरीहास इत्यादि; क्षिप्तः प्रेरितो वाण: शरः, छलपक्षे तु
वाणोऽसुरः, कृतस्तेन वलिर्मध्यदेश: मध्यप्रदेशो निर्वलिर्वलिरहितो विहितः, किंभूतो
मध्यदेशः त्रिकविनतिततः त्रिकस्य विनंत्या विनयेन तत श्राच्छादितः, एकत्र वलयो
वल्य: अन्यत्र वलिरसुरः; क्षतरिपुशिरस: रिपोः शिरो रिपुशिरः महिपमूर्द्धेत्यर्थः
क्षतं च तत् शिरश्च तत् ततः क्षतरपुशिरसः पादपातश्चरणपातनैनू पुरप्रह्लादः
शब्दोऽगात्, छलपक्षे प्रह्लादोऽसुरः सङ्ग्रामे युद्धे संतता प्रविच्छिन्न त्वेन महिपं
व्यथयसि अपि तु ग्रन्यानपि, ये के पुनस्ते येऽत्र विद्यन्ते नैव वाणवलिप्रह्लादा
इति ॥३०॥
 
मेरौ मे रौद्रशृङ्गक्षतवपुषि रुषो नैव नीता नदीनां
 
भर्त्तारो रिक्ततां यत्तदपि हितमभून्निः सपत्नोत्र कोऽपि ।
एतन्नो मृष्यते यन्म हिपकलुषिता स्वर्धुनी मूर्ध्नि मान्या
शम्भोर्भिद्यात्' हसन्ती पतिमिति शमितारा तिरीतीरुमा वः ॥३१॥
 
कुं० वृ० - उमा पार्वती वो युष्माकं ईती: उपद्रवान् भिद्यात् नाशयतु,
किंभूता उमा शमिताऽराति: हतशत्रुः, कि कुर्वती इति पति हसन्ती, इतीति किं.
हे शम्भो ! मेरौ पर्वते शृषि सति मे मम रुषः कोपाः नैव न जाता:;
रौद्रे च ते शृङ्ग च रोद्र ताभ्यां क्षतं विदारितं वपुर्यस्य स तथा तस्मिन्
श्रयमर्थः । महिषेण शृङ्गाभ्यां मेरुपर्वते विध्वस्ते मे रुपो न जाताः, मे रो शत्रो
पितु: स्पद्धित्वात् यत् नदीनां भर्तारः समुद्राः रिक्ततां नीताः शोषिताः, तदपि
मम हितं प्रभूत् । समुद्र रिक्तीकरणे कोऽपि निःसपत्नो जातः कोऽपीत्यनेन
सर्वनाम्ना नामग्रहणायोगात् स्वकीयं भर्तारं परामृशति, श्रयं श्राशयः ।
शम्भुरपि नद्या गङ्गाया भर्ता समुद्रा श्रपि नदीनां ( 27a) भत्तर: प्रतस्तद्रिकी-
करणे ईश्वरस्य सपत्नविध्वंसात् हितं एवं प्रभूत् । एतच्च मया नो मृष्यते न
सह्यते, किं तत्, यत् स्वर्धुनो गङ्गा महिपकलुषिता सती मूर्ध्नि मान्या महिषेण
 
१. ज० क० भिन्द्यात् ।
 
Y