This page has not been fully proofread.

पद्याङ्क २९-३० व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ७३
 
स्वचरणगरिमग्रस्तगीर्वाणगर्वा
 
स्व आत्मीयः चरणस्तस्य गरिमा गुरुत्वं तेन ग्रस्त
आक्रान्तो गीर्वाणानां गर्यो यया सा तथोक्ता; इत्येवमात्तहासा गृहीतहासा गौरी कथ-
मिति तदाह, गाहस्व व्योममार्गमित्यादि; हे भानो ! व्योममार्ग गाहस्व आकाशपथ
विलोडय विश्रब्धं श्रश्वैर्वाजिभिः कथंभूतैः गतमहिषभयैः महिषाद् गतं भयं येषां ते
तथोक्ता:, हे विश्वकर्मन् ! हे देवशिल्पिन् ! शाङ्गिणो विष्णो: प्रन्यत् शार्ङ्ग
धनुर्नवं प्रत्यग्रं शृङ्गाभ्यां न घटयसि न करोषि, किमनेन शाङ्गिणः पुरातनेनेति
भाव: ; ईश्वर ! शम्भो ! इभस्य इयं ऐभी, 'तस्येदृक् इत्यण्' इयं त्वक् इभसम्ब-
निधनी निष्ठुरा कठिना इमां मृदुलां माहिषीं विभूहि धेहि, इति ॥२६॥
 
क्षिप्तो बाणः कृतस्ते त्रिकविनतिनतो' निर्वलिर्मध्यदेशः
 

 
प्रह्लादो नूपुरस्य क्षतरिपुंशिरसः पादपातैर्दिशोऽगात् ।
सङ्ग्रामे सन्नताङ्गि व्यथयसि महिषं नैकमन्यानपि त्वं
ये युध्यन्तेऽत्र' नैवेत्यवतु पतिपरीहासतुष्टा शिवा वः ॥ ३० ॥
 
.
 

 
कुं० वृ० - भवानी वः श्रवतु, किविशिष्टा इति पतिपरीहासतुष्टा, परि
समन्तात् हसनेन केलिना तुष्टा, पत्यु परीहासः पतिपरीहासः तेन तुष्टा, इतीति
कि, हे सन्नताङ्गि ! सन्नतं अङ्गं यस्याः सा सन्नताङ्गी तस्याः सम्बोधनं, सङ्ग्रामे
युद्धकाले त्वया बाणः शर: क्षिप्तः; अनुच, मध्यदेशो निर्वलिः कृतः निर्गता वलयो
यस्मात् स निर्वलिर्वलिरहित इत्यर्थः । स्त्रीणां निर्वलित्वं दूषणं भूषणहानि:,
किंविशिष्टो मध्यदेशः, त्रिकविनतिनतः त्रिकस्य विनतिर्विनमनं तया नतः,
किमुक्त भवति, बाणस्य मोक्त: संस्थान विशेषात् त्रिकस्य पृष्ठदेशस्य विनमनात्
उदरं निर्वलीकं भवति इति स्वभावः तं सशब्दच्छलेन वदति, बाणशब्दः शरे
दैत्ये च वर्त्तते, 'बलिर्वल्यां दानवे च', हे देवि ! त्वया बाणः क्षिप्तः, बाणोऽसुर:
क्षिप्त: मध्यदेशात् बलिदैत्यो निर्वासितः, अन्यस्तु यं क्षिपति तं एव निर्वासयति
त्वय तु क्षिप्तो बाणो निर्वासितो वलिरिव तदाश्चर्यं; अन्यच्च, पादपातैः कृत्वा
नूपुरस्य प्रह्लादः शब्दो दिशोऽगात्; 'प्रह्लादो नूपुरस्य ध्वनो दैत्ये च', कथंभूतस्य
नूपुरस्य क्षतरिपुशिरसः क्षतं रिपुशिरो येन स तथा तस्य, चित्रं नत्र पादपातो
 
..
 
१. ज० का० त्रिंक विनतिततो ।.
२० ज० संतता वो
 
३. ज० ये विद्यन्तेऽत्र ।
 
४. का० हृष्टा ।
 
५. ज० भवानी ।
 
*