This page has not been fully proofread.

पद्यांङ्क २७-२८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ७१
 
सं० व्या० – २७. प्रास्तामिति ॥ उमा गौरी वो युष्मान् श्रव्यात् रक्षतु, किं
कुर्वती विदग्धं दनुजं निर्दहन्ती रुषा दृष्ट्वा रौद्रदृष्टयां महिषं सोत्प्रासं जल्पन्तं
दलयन्तीत्यर्थः,आलापानां पाता: पतनानि आलापपाताः सहोत्प्रासेन उल्लण्ठनेन वर्तन्ते
इति सोत्प्रासाश्च ते मालापाश्च तैरित्येवं सोत्प्रासालापपातः, विदग्धं विचक्षणं
दनुजं तदुच्यते 'आस्तां मुग्धेऽर्द्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्या 'दि, आस्तां
तिष्ठतु मुग्धे ! श्रर्द्धचन्द्रः शरविशेषः, छलपक्षं तु अर्द्धचन्द्रः श्रद्धं नपुंसकमिति
तत्पुरुषसमासः, क्षिप मुञ्च सुरसरितं गङ्गा या कीदृशी सपत्नी भवत्यास्तव इद-
मुक्त भवति, अर्द्धचन्द्रस्तव भत्तु चूडामणिः, इयं तु भार्या अतः क्षेपणे योग्ये इति,
पाशश्चायुधविशेष: 'ततोऽङ्गश्चादी कत् पाशकः, पाशको दुंदुभिरुच्यते ततः
शब्दच्छलेनाह अमुनैकेन पाशकेन अलं पर्याप्तं अपरं द्वितीयं पाशकं मुञ्च द्वाभ्यां
पाशकांभ्यां क्रीडेति, शूलमायुधं व्याधिश्च तत्र छलेनाह शूलं प्रागेव पूर्वमेव मम
शिरसि लग्नं, किमिदानीं शूलं क्षिपसि इति भावः कथं शिरःशूलं यत् यस्मात्
स्त्री युद्धयसे, किल पुरुषस्य युद्धेऽधिकारः ॥२७॥
 
9
 
वक्त्राणां विक्लवः किं वहसि बत रुच स्कन्द षराणां विषण्णा-
मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीराईलब्ध्या ।
जिह्मां हन्म्यद्य कालीमिति सममसुभिः कण्ठतो निःसृता' गी-
र्गीर्वाणारेर्यथेच्छामृदुपददलितस्याद्रिजा साऽवताद्वः ॥२८॥
 
कुं० वृ० - सा अद्रिजा पार्व्वती वो युष्मान् अवतात्, सा का यया इच्छा-
मृदुपददलितस्य मृदितस्य, गीर्वाणी येषां ते गीर्वाणाः तेषां अरि: तस्य गीर्वाणारे:
कण्ठतः असुभिः समं प्राणै: सह इति गीनि:सृता, इच्छया मृदु अकृताऽभिभारं
यत्पदं तेन दलितः तस्य, इति किं, हे स्कन्द ! बत इति खेदे, षण्णां वक्त्राणां विषण्णां
विच्छायं रुचं कान्ति किं वहसि, मा वह, ते तव अन्याः अपराः कृत्तिकाः षण्मातरः
सन्ति, तासु त्वं स्नेहं कुरु, कथम्भूतस्त्वं विक्लवो विह्वलः । हे हर ! अद्याहं कालीं
हन्मि व्यापादयामि अतस्त्वं शरीरार्द्धलब्ध्या सकलः सम्पूर्णो भव, अस्यां शरीरार्द्ध-
हारियां हतायां तव शरीराद्धं त्वयि एव च समाविशतु । किविशिष्टां कालीं
जिह्यां वक्रां, उक्तिलेशोऽपि यस्य किल जिह्या काली कान्तिर्हन्यते स सकलो
 
१. ज० का० निर्गता ।
 
२. ज० का०-मूदितस्याद्रिजा; यदुच्छा मृदुपदमुदितस्याद्विजेति अन्यत् पाठान्तरं
काव्यमालाप्रती सूचितम् ।
 
.