2023-02-24 17:17:39 by ambuda-bot
This page has not been fully proofread.
७० ]
महाकविबाण-विरचितं चण्डीशतकम्
[ पद्याङ्क २६-२७ व्याख्या
गता देवीति भावः, शमिते शात्रवे क्लान्तेव ग्लानि ( प्राप्तेव), कि कृत्वा लज्ज-
योपसृत्य पत्युर्देहार्द्धलीना, किंभूतस्य पत्युः तंतभुजयुगलस्य ततं भुजयुगलमस्येति
विग्रहः, किमर्थं प्रसारितभुजयुगलम्य अलमालम्बनार्थं ग्रहणाय ॥२६॥
आस्तां मुग्धेचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्याः
क्रीडा द्वाभ्यां विमुञ्चापरमलममुनैकेन मे पाशकेन ।
शूलं प्रागेव लग्नं शिरसि यदबला युध्यतेऽव्याद्विदग्धं
सोत्प्रासालापपातैरिति दितिजमुमा निर्दहन्ती दृशा वः ॥२७॥
-
कुं० वृ० - उमा पार्वती वो युष्मान् श्रव्यात् पातु, कि कुर्वती दृशा दृष्ट्या
दितिजं महिषं निर्दहन्ती ज्वलयन्ती, किंविशिष्टं इति सोत्प्रासालापपातात्
विदग्धं चतुरं घूतं, लनानि आलापास्तेषां पाता: पतनानि सह उत्प्रासेन
उल्लण्ठनेन वर्तन्त इति सोत्प्रासाश्चते आलापपाताश्च सोत्प्रासालापपाता: तैः
प्रतिचारसोत्साहवचनः, इतीति कि, हे मुग्धे !, अर्धचन्द्रं वाणविशेषं क्षिपन्तीं देवीं
शब्दच्छलेनाह, हे मुग्धे ! अर्धचन्द्र प्रस्तां अर्धचन्द्राख्यो वाणस्तिष्ठतु मा क्षैप्सी :
यतस्त्वद्भर्तु रलङ्कारस्तव भूषा (क) रोऽयं प्रर्द्धचन्द्रो हरशिरोभूषायामपि प्रस-
मञ्जसमेतत् न क्षिप्यते, ननु तर्हि कि क्षिपामीति देव्युक्तौ महिप ग्रह, सुरसरितं
सुरनदीं त्वद्भतुं : शिरसि वर्तमानां गङ्गां क्षिप, कथं या भवत्याः सपत्नी द्वेषिणी
तां, 'कर्म्म तत्क्रियते यत् आत्मनः सुखाय भवति', किमुक्त भवति, तवार्द्धचन्द्रेण
मे रोमापि न छिद्यते किमर्थं प्रयस्यते इति व्यज्यते । अत्र च कर्त्तव्याकर्त्तव्यविवेक-
विरहान्मुग्धे इत्युक्त; एवं अर्धचन्द्रं निवार्य पाशं क्षिपन्तीं पुनराह, तत्र पाशशब्दं
'प्राणिबन्धनविशेषे क्रीडासाघने पाशके च' वर्तमानं दृष्ट्वा वलयति; हे मुग्धे !
पाशोऽप्यास्तां अमुना एकेन पाशकेन मे प्रलं मह्यं पूर्यतां, ह्रस्वः पाश: पाशकः,
परंप द्वितीयं श्रपि पात: ( पातय ) क्षिप कथं यतः क्रीडा खलु द्वाभ्यां
पाशाभ्यां भवति, एतदुक्त' भवति किञ्चित्करत्वात् मयि पाशः क्षिप्तः प्रत्युत
क्रीडां एव द्योतयति न तु युद्धं, तर्हि (26a] शूलां ( लं) क्षिपामि इति देव्युक्तौ महिषः
पुनरांहू, हे मुग्धे ! शूलं मे शिरसि प्रागेव लग्नं यत् मया सकलसुरकुलखलीकार-
खर्जू लभुजयुगेन सह अवला स्त्री युध्यते, सूरस्य शिरसि अतः परमपि कि शूलं
कि दुःखम्, अत्र छलं, शूलं प्रहरणं तिष्ठतु, शूलं खड्गे प्रहरणे च उभयवृत्ति-
त्वात् छलास्पदम् ॥२७॥
C
(
१. न० युद्धयसे ।
२. ज० का० दनुजमुमा ।