We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

२६ व्याख्या
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेत म्
 
[ ६६
 
>
 
वो युष्माकं कृच्छ्र विहन्तु कंष्टं विनाशयतु । कथंभूता संती: तूर्णं उपेत्यं पत्युर्दे-
हार्द्ध शम्भोः शरीरार्द्धे गेहबुद्धि गृहबुद्धि प्रतिविहितवती प्रवेक्षन्ती साक्षात्कृतवती,
प्रतिरत्र साक्षादर्थे निपातानां अनेकार्थत्वात् गेहे बुद्धि : गेहबुद्धिः गृहविषये या
बुद्धिः तां देहार्द्धे महेश्वरशरीरे साक्षात्कृतवती श्रमवशात अभेदबुद्धि तत्र परि
कल्पितवती, इदमेव मे गृहं इति, अत्रैव विश्राम्यामि । किमुक्त भवति, महिष-
वार्थं महेशशरीरात् विनिर्गत्य तं हत्वा पुनः तत्रैवं निवेष्टुकामा, किंभूता इव
क्लान्ता इव, महिषं हत्वा श्रमात इव, अन्योऽपि यः श्रमात भवति स क्वचिद्वि-
श्रान्ति करोत्येव, कि कृत्वा, आलीय तिरोभूत्वा, कया लज्जया, एतदुक्त भवति,
जनसन्निधो प्रत्युत्त (25b) राश्लेषाल्लज्जां प्राप्य शरीरार्द्धमिषेण तत्र लीना बभू-
वेत्यर्थः। किभूतस्य पत्युः, ततभुजयुगलस्य प्रसारितभुजद्वयस्य, कथं प्रलं अतिशयेन
किविशिष्टा, प्रनिच्छयैव तदा वाञ्छां विना एवं आपतितघनत राश्लेषसौख्या
घनतरश्चासावाश्लेषश्च घनतराश्लेषः तस्मात्सौख्यं घनतराश्लेषसौख्यं प्रापतितं
जातं घनतराश्लेषसौख्यं यस्याः सा तथा; अयमभिसन्धिः महिषधक्लान्तिवशात्
प्राश्रयं इच्छुराश्रयेच्छां विनापि क्षेमागमनप्रश्नव्याजेन परिरब्धुकामस्य पत्युः
भुजयुगमध्यान्तर्वतितया सञ्जातदृढतराश्लेष सौख्येत्यर्थः; केषु सत्स तुराषाप्रभृतिषु
इन्द्रादिदेवेषु स्तोत्रकृत्सु स्तुति कुर्वत्सु सत्सु तुरं वेगं सहते तुराषाद्, कथं तूर्णं
वेगेन, कस्मात्तोषात् तुष्टेः क्व सति शात्रवे शत्रौ महिषे शमिते व्यापादिते सति,
शत्रुरेव शात्रवः, प्रज्ञादित्वादण् । श्रथ पत्युः सन्निधो देवेषु स्तुवत्सु लज्जावशात्
पत्युर्देहार्द्धं लीनेति योजनीयम् ॥२६॥
 
4
 
:
 
7
 
सं० व्या०-२६ तूर्णं तोषादिति ॥ काली भगवती कृच्छ कष्टं वो युष्माकं
विहन्तु ध्वसयतु । श्रापतितघनतराश्लेषसौख्या घनतरश्चासावाश्लेषश्च घनतरा-
इलेषो गाढतरालिङ्गन तस्माद्यत्सौख्यं घनतराइलेषसौख्य अनिच्छ्यैवा कामतयैव
नापतितमागतं घनतराश्लेषसौख्यं यस्याः सा तथोक्ता आपतितघनत राश्लेषसौख्या,
किं कृत्वा प्रालीय आलिङ्गन कृत्वा, कया लज्जया, क्वे देहार्द्ध शरीरार्द्ध कस्य पत्युः
शङ्करस्य, किंविशिष्टा देवी, गेहस्य बुद्धिः गेहबुद्धिः तो गेहबुद्धि प्रतिविहितवती
श्रयमर्थः । महिषव्यापादनाय पत्युः शरीरात् वियुज्य पुनरपि कृतकार्या स्वगेहबुद्धि
कृत्त्वा भतु : शरीरे लज्जयानिच्छ्येवापतितघनतराईलेषसोख्या कालीति, केन
कारणेन लज्जते इत्याह, तूर्णं तोषात्तराषाप्रभृतिषु शमिते शात्रवे स्तोत्रकृत्सु' इति
शत्रु रेव शात्रवः, प्रज्ञादित्त्वादण्, तस्मिन् शात्रवे महिषांख्ये शमिते व्यापादिते
सति यस्तोषस्तस्मात् तूर्णं क्षिप्रं तुराषाप्रभृतिषु शऋादिषु स्तोत्रकृत्सु स्तुति-
कारकेषु सत्सु, महान्तो हि प्रत्यक्षप्रशंसया सुतरां लज्जन्ते' इति देहार्द्धन सकता