2023-02-24 17:17:38 by ambuda-bot
This page has not been fully proofread.
६८ ]
महाकविवाण-विरचितं चण्डीशतकम् . [ पद्याङ्क २५-२६ व्याख्या
*
स्तेषां कुलं तस्य ध्वंस: तस्मै ध्वंसाय, एतदुक्त भवति, यशोदादेवक्योरपत्य-
विनिमयेन देवक़्यङ्कस्थां भगवतीं तदीयजातजाताऽपत्यत्त्वात्तु कः ( ? ) कंस: किल
यां वध्य शिलां आनयत् सा च नभ[सि] एव सान्वयस्य कंसंस्य समूलनाशे हेतुर-
भवत्, तत्कोपादेव कंस: सान्वयो नाशमियादित्यर्थ: । अत एव किंभूतः कंस:
मोहान्धधी: मोहेन अन्धा धीर्यस्य मोहेन पिहितज्ञानमित्यर्थः, यथा कश्चन शूलीं
वध्यं नयति तथा मोहेन भ्रान्तत्वात् वध्यभ्रान्त्या भगवतीं एवं शूलीरूपां तत्र
निनाय आत्मन एव विनाशायेति यावत् । किंभूता सा हस्तात् उत्पतिता कंसे
नास्फोटि हस्तेन गृहीत्वा यदा [था] भ्रामितां तथा, हे कंस ! यतस्त्वं एवं कृतवां--
स्ततस्त्वामहं सान्वयं नाशयिष्यामीति व्याहृत्य कंसहस्तादुत्पत्य आकाशं गता ।
तो विहायस्तलं गतेति विशेषणम्, कि भूताद्धस्तात्, स्पर्धेति स्पर्द्धया वद्धितः
स चासो विन्ध्यश्च, धत्तु शक्यो दुर्द्धरः विन्ध्यस्येव दुर्द्धरो यो भरः देवीशरीर-
गुरुत्वं तेन व्यस्तात् भारन्यासेन व्याकुलीभूतत् ॥ २५॥
f
सं०व्या ० - २५. स्पर्द्धा वद्धितेति ॥ कात्यायनी भगवती प्रसादयतु निष्पादयतु वो
युष्माकं कृत्यानि, किंभूता हस्तादुत्पतिता प्रास्फोटयितुमिच्छोः कंसस्येत्यर्थः
सम्बन्ध:, कि उत्पतिता विहायस्तलं गगनतलं, कि विशिष्टात् स्पर्द्धावद्धित विन्ध्य
दुर्भरभरव्यस्तात् स्पर्धा पराभवेच्छा तया वद्धितः स चासो स्पद्धविद्धितो विन्ध्य
स्तद्वद्दुर्भरः स चासो भरश्च स्पर्द्धावद्धितविन्ध्यदुर्भरभरस्तेन व्यस्तात् हस्तादुत्पतिता
इदमुक्त' भवति, यथा भानोरभिभवेच्छया विन्ध्यो वद्धितः एवं कंसस्य स्पर्द्धया
भट्टारिकायाः कोपस्तदा य (द् ) दुर्भरभरेणेव हस्तो व्यस्त इति यां कात्यायनी कंसो
वध्योद्देशमनयत् नीतवान्, कामिव शूलीमिव कथंभूतां देवदारुघटितां देवदारों
घटिता देवदारुघटिता तां स्कन्धेन किमर्थं वध्यानामुद्देशमनयत् अशेषबान्धवकुलध्वं-
साय अशेषाश्च बान्धवारच अशेषबान्धवाः तेषां कुलं तस्य ध्वंसो विनाशस्तदर्थः
अत एव मोहान्धधी: कंस इत्युक्त मोहनान्धा धीरस्येति विग्रहः ॥२॥
तूराणं तोषात्तुराषाट्प्रभृतिषु' शमिते शात्रवे स्तोत्रकृत्सु
क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय ।
देहार्द्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली
कृच्छ्रं वोऽनिच्छ्यैवापतितघनतराश्लेषसौख्या विहन्तु ॥ २६॥
कुं० वृ० - स्तुतिरूपं किञ्चित् प्रदर्श्य पुनः प्रकृतमनुसन्दधाति; काली दुर्गा
१. शेपात्तरापाट्प्रभृतिष्वित्यपि काव्यमालाप्रती पाठान्तरमा ।
7