This page has not been fully proofread.

पचाङ्क २४-२५ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ६७
 
सं०व्या० - २४. शाङ्गिन् बारणमिति ॥ उमा गौरी वो युष्मान् त्रायतां रक्षतु,
कि कृत्वा इत्येवं उत्प्रास्य उपहस्य, पुरस्तादग्रतः शाङ्गि-प्रभृतीन् अनु पश्चात्
मृद्मती क्षोदयन्ती, कां दनुजतनुं दनुजो महिषस्तस्य तनुं शरीरं कथमुत्प्रास्येत्याह,
शाङ्गिन् बाणं विमुञ्चेत्यादि, शाङ्गं धनुरस्यास्तीति श।ङ्ग श्रीविष्णुस्तस्य सम्वोधनं,
हे शाङ्गिन् ! बाणं शरं विमुञ्च क्षिप, भ्रमसि भ्रान्ति करोषि तच्चायुक्त, वलिरसौ
संयतो वद्धः केन बाणेन अपि तु न केनापि इति असुर: छलितः, गां त्रायन्तीति
गोत्रा : पर्वतास्तेषामरिरिन्द्रस्तस्यामन्त्रणे गोत्रारे ! हन्मि व्यापादयामि अहं ते तव
रिपुं प्रसुरश्चासौ रिपुश्चासुररिपुः तु शव्दस्तस्मिन् महे महदुत्सवे अस्मिन् काले
महिषो हन्यते श्रज इव यथा प्रजश्छाग:, हे दैत्या दितिजा द्राक् क्षिप्रं व्यापाद्यतां
मार्यतां मया महिष इति ॥ २४॥
 
स्पर्द्धावतिविन्ध्यदुरभर' व्यस्ताद्विहायस्तलं
 
हस्तादुत्पतिता प्रसाधयतु वः कृत्यानि कात्यायनी ।
यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी-
र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत् ॥२५॥
 
कुं० वृ० - इदानीं महिषवधानन्तरं शऋाद्या : पूर्वावदातचरितं : कंसवधा-
दिभिः परमेश्वर्यास्सव्वंशक्त्येकात्मकत्वख्यापनाय च स्तुतिमारेभिरे कत्तु; ननु
महिषः पूर्वं व्यापादितः कंसस्तु पश्चात्, तत्कथं कंसवधस्य पूर्व्वभावित्वं व्याप्यते ?
उच्यते, प्रत्र महिषकंसादिशब्दानां प्रवाहान्तःपातित्वेन नित्यत्वमाश्रयणीयं न.
पौर्वापर्यक्रमः, कदाचित्कल्पभेदेन पूर्वं कंसवधः पश्चान्महिषवधः, कदाचिद्वैप -
रीत्येनेति सर्व्वमवदातं, तदयं कविप्रेरितकर्तृ भणितत्वेन देवतास्तुतिश्लोकः,
तदुक्त' अग्रेतने पद्ये 'तूर्णं तोषात्तराषाट्-प्रभृतिषु स्तोत्रकृत्स्विति । तदयं व्याक्रियते,
कात्यायनी दाक्षायणी वो युष्माकं कृत्यानि कार्याणि प्रसाधयतु निष्पादयतु,
काऽऽसौ[25a] यां कंसो गुरुत्वात् स्कन्धेन कृत्वा वध्योद्देशं वध्यप्रदेशं प्रयत्, वधं
महंतीति वध्यः तस्य प्रदेशो वध्योद्देशः । कां इव शूलीं इव, कृतमहादोषप्रांणिनो
वघार्थं तीक्ष्णाग्रकीलां इव । किंभूतां शूलीं, देवदारुघटितां देवदारुणा निमिता
देवदारुघटता तां प्रतिगुर्वीमित्यर्थः; श्रथ देव्या गुरुत्वद्योतनार्थं देवदारूपमा ।
किमर्थं अनयत्, अशेषवान्धवकुलध्वंसाय अशेषाश्च ते बान्धवाश्च श्रशेषवान्धवा-
१. ज० का० दुर्भरभर० ।
 
२. ज० हस्तादुत्पतिताथ साधयतु; का० प्रसादयतु