This page has not been fully proofread.

६६ ]
 
महाकविबाण - विरचितं चण्डीशतकम् [ पद्याङ्क २४ व्याख्या
 
शार्ङ्गिन् बाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन बाणो
गोत्रारे ! हन्म्यहन्ते रिपुममररिपुः शक गोत्रस्य शत्रुः ।
दैत्यो व्यापाद्यतां द्राक् ज इव महिषो हन्यते मन्महेऽद्य
त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्नती त्रायतां वः ॥२४॥
 
.
 
-
 
१. का० त्वेष गोत्रस्य शत्रुः । ज० रिपुमसुररिपुस्त्वेष गोत्रस्य शत्रुः ।
२. ज० मन्महे स्वे ।
 

 

 
.
 
3
 
कुं० वृ० – उमा गौरी वस्त्रायतां रक्षतु, कि कुर्वती अनु पश्चात् दनुजतनु
महिषासुरशरीरं[24b] मृद्नती चूर्णयन्ती, किं कृत्वा, पुरस्तादादी इत्येवं प्रकारेण
देवानुत्प्रास्य प्रोत्सा, इतीति किं, हे शाङ्गिन् ! विष्णो ! बाणं विमुञ्च
'बाणस्तिष्ठतु, कि बाणं मोक्त मिच्छसि, कुत एतदुच्यते, यस्मात्कारणात्त्वं भ्रमसि
भ्रान्ति इतोऽसि, बद्धः खलु मुच्यते ननु, अतो यतस्त्वया संयतः स बलिः, बले-
रवेदं युक्तं; अयं तु बाण : बाणासुर: बाणो दैत्यः शिरश्च बाणासुर: केनापि
न बद्धः, तो बाणमोचनप्रयासाय यत् यतसे सा भ्रान्ति:; अत्र प्रस्तुतं, हे
शाङ्गिन् ! बाण आस्तां, त्वं भ्रमसि भ्रान्तोऽसि यतोऽसौ बलिर्बलवान् न तव बाणेन
वध्य इत्यर्थः; त्वया केनं हेतुना धनुषि बाण: संयतो नियमित: आरोपित इति
यावत् । श्रपि च, हे गोत्रारे ! इन्द्र ! गोत्राणां पर्व्वतानां अरिः गोत्रारि: तस्य
संबोधनं, श्रहं ते तव रिपुं शत्रु हन्मि व्यापादयामि; गोत्रशत्रु हन्तु उद्यतोऽय-
मिति कृत्वा त्वं भयं मा कुरु । तु पुनः एष गोत्रस्य शत्रुः, अमररिपुर्देववैरी
तवेन्द्रसंज्ञा, एष न केवलं अमररिपुः यावता तेषां कुलस्यापि वैरीति, गोत्रशत्रु-
हनने आत्मनामभ्रान्त्या भयं मा कुरु । अत्र गोत्र-शब्देन पर्व्वतः, गोत्रं कुलं
लभ्यते, अहं ते रिपु हन्मि न त्वां इति वाक्यार्थः । अथ हे गोत्रारें । स्वकीय-
गोत्रशत्रो ! इत्युपहासार्थ: । अन्यच्च, तर्हि शाङ्गि-इन्द्रार्ध्या किंकर्त्तव्यमित्यपेक्षाया-
माह, भवद्भ्यां द्राक् तूर्णं अन्योऽपि यः कश्चन दैत्योऽत्र तिष्ठति स व्यापा-
द्यतां, क इव अज इव छाग इव, दैत्य: छागश्चेति जातो एकवचनं, अद्य महिषो
हन्यते ; क्व मन्महे मदीयमहोत्सवे, मन्महे खलु महिषं प्रजाश्च हन्यन्ते इति
प्रचारः; हे देवा ! वयं इति मन्महे जानीमहे श्रय महिषो हन्यते तहि अन्योऽपि
दैत्यो व्यापाद्यतां, कश्चनेतो जीवन् मा यातु, कस्मिन् यथा मन्महे महिष
अजाश्च व्यापाद्यन्ते ॥२४॥