This page has not been fully proofread.

६२ ]
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क २१ व्याख्या
 
न विचक्षणपरीक्षाक्षमं ईक्षामहे । तस्याः संसदि पुवत् प्रगल्भतेऽपशव्दापत्तेः
तस्मान्मान्यानां चरित्रस्य श्रविचारिणीयत्वात्, क्वचिदेकान्ते स्त्रियाः पुंवद्भावोऽपि
भविष्यतीत्यनुपरम्यते । ऋतु च, हन्तेयंत् त्यागार्थत्वमुपवर्णित (न) ञः हन्तेः पार-
स्पर्येण प्राणानां त्याग एव पर्यवसानात्, 'श्रोहाक् त्यागे' इति अनेनैकार्थत्वं
सुवचं द्रव्येशमभिधाय भङ्गश्लेषोक्त्या चक्रिणं स्पृशति । हे चक्रित् ! त्वं दितिजे
महिषे विचको जातः, चक्र (23b) मस्यातीति चक्रो, चक्रित्वं ते प्रकृतिः, विचक्रत्वेन
सा त्वया त्यक्तेति मम दुःखकरं, प्रकृतेविकृतिरुत्पातायेति हेतोः । अथात्मरक्षा-
परेरण त्वया साधु समाचरितं विचक्रं मां महिषो न प्रहरिष्यतीति चऋपरित्यागः
कृतः । भ्रंथ च, हे चक्रित् त्वं मा भैषी: केवलं त्वमेव विचक्रो न किन्तु दितिजोऽपि
विचको जात: 'चक्रं सैन्यमायुधं च । ग्रंथ हे चक्रिन् ! साम्प्रतं दितिजो विचक्रो
विगतसैन्यो जातः, तर्हि विचक्रश्चक्रिणि त्वयि न प्रहरिष्यतीति त्वं तस्मान्मा स्म
भैषीः । श्रथ विगतं चक्रं यस्मात् इति विचक्रः, चक्रिणो मुक्तमपि तस्य न लग्न-
मिति भावः । तो हे चक्रिन् ! यथागतं गम्यतामिति किमत्र त्वया प्रयोजनम्
 
॥२१॥छ।
 
S
 
"
 
सं० व्या० – २१. कृत्त्वेदृगिति । व्यापादितो निपातितो अरियां सा व्यापा-
दितारिर्भवानी भवभार्या जयति । कि क्रियमाणा, नीयमाना प्राप्यमाना व्रीडां लज्जां
विजयया देवीसख्या, कि कुर्वत्या विजयया इत्येवं सुरान् इन्द्रादीन् ब्रुवन्त्या अभि-
वादयन्त्या किविशिष्टान् त्यक्तहेतीन मुक्तप्रहरणान् क्व दितिजे दैत्ये महिषे इत्यर्थः
व्यक्तायुधानस्मान्नैष महिपः प्रहरिष्यतीति विचार्य देवैर्हेतयस्त्यक्ताः किल महान्तो
मुक्तायुधेषु न प्रहरन्तीति भावः । कथमुपहासपूर्वं तान् सुरान् ब्रुवन्त्या तदुच्यते,
कृत्त्वेहवकर्मेत्यादि, न विद्यते प्रशनिर्वत्रं यस्येति सम्बध्यते हे अनशने शक मासून्
विहासी: मा प्राणांस्त्याक्षीः क्व न प्रशनं अनशनं तत्र अनशने इति शब्दच्छ-
लेनोक्तं किं कृत्वा ईहवकर्म शत्रु विजणं (नं) हेतित्यागलक्षणं लज्जाजननं त्रपाकरं
कृत्वा विधायेति, प्रर्येश - घनद घनपते ! गदं रोगं जहि शमय, क्व स्थाणुकण्ठे
विषापहारं कुर्व (वि.) तीत्यर्थ: अगदस्यायमेवोपयोगः इदमेवोषधप्रयोजनं त्वं तु श्रगदो
विद्यसे गदायास्त्यागात्, प्रसावपि दैत्यसूदनश्चक्री विष्णुविचको विगतचक्रो जातो
भूत इति देवान् ब्रुवाणया विजयया भगवती ब्रीडां नीयमाना जयति इति] सभु-
दायार्थ:
: ॥२१॥ .:
 
:
 
.