2023-03-13 20:58:23 by manu_css
This page has been fully proofread once and needs a second look.
रूपम् [ईश:] शूले तस्मिन्निखाते सति, शूलस्यास्तीति शूली इति ईश्वरस्य यशो
गृह्णाति, शूलिशब्दस्य वाच्यत्वात्, अतः शूलं नोपात्तमिति भावः । तर्हि दण्डः
किमिति नोपात्त इति आशङ्क्याऽऽह, वधार्हे वधमर्हतीति वधार्हः तस्मिन् वधयोग्ये
दण्डो वित्तादानं, दण्डशब्देन वित्तादानं आयुधविशेषश्च शब्दच्छलेनोच्यते, स
दण्डः परिलघुः अत्यल्पः स्यात्, वध्ये नीतिशास्त्रविरोधात् वध एव न्याय्यो न
दण्ड इति भावः । एवं तत्तद्दोषदर्शनात् हेतीर्हित्वा पार्ष्ण्य एव रिपुं व्यापादयन्ती
भगवती वः पायादिति वाक्यार्थः ॥२०॥
सं० व्या०—२०. खड्गे पानीयमिति । पार्वती पर्वतपुत्री वो युष्मान् अवतात् रक्षतु
किं कुर्वती, सुररिपुं देवशत्रुं प्रोषितासुं विगलितप्राणं कुर्वती, प्रोषिता असवो यस्येत्ति
विग्रहः । कया प्रोषितासुं कुर्वती, पार्ष्ण्यैव पादपश्चिमभागेनैव न आयुधेन
इत्येव शब्दोऽवधारयति अत एवायुधानां खड्गादीनां अत्र कविरुत्प्रेक्षया परिहार-
मुक्तवान् । किंभूतया पार्ष्ण्या अभिहतिबहलितप्राक्तनापाटलिम्ना अभिहत्या अभि-
घातेन बहलितः सान्द्रीकृतः प्राक्तनः पूर्वं आ(समन्तात्) पाटलिमा आपाटलत्वं
यस्याः पार्ष्णेः सा तथोक्ता तयाः पार्ष्ण्या, आरक्तत्वं नैसर्गिकं अभिघातेन ननु तदैव
बहलितमित्यर्थः । किं कृत्वा प्रोषितासुं कुर्वती पार्वती, हित्वा हेती: त्यक्त्वा प्रहर-
णानि इतीव एवमिव कथमिति तदुच्यते, खड्गे पानीयमित्यादि, हि यस्मात् खड्गे
पानीयं तत्पादं ह्लादयत्याह्लादं करोति महिषितोऽसौ न योग्यः शत्रोरुपकारित्वा-
दिति भावः, पक्षपाती पृषत्क इति कृत्वा असावप्ययोग्यः, शूलिन ईशस्य यशो-
भाग् भवति यशो लभते, किल शूली शङ्करः, (तत्) प्रेषितः असावपि शूलयोगात्
तद्विध: स्यात्, ईश इति क्विपि षषान्तं (षष्ठन्तं) रूपं, वधमर्हतीति
वधार्हस्तस्मिन् वधार्हेऽपि दण्डः परिलघुफलः स्यात्, यो हि वध्यस्तत्र दण्डो न
युज्यते इति भावः ॥२०॥
कृत्वेदृक् कर्म्म लज्जाजननमनशने शक नासून्[^१] जहासि[^२]
द्रव्येश[^३] स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः[^४] ।
जातश्चक्रिन्[^५] विचक्रो दितिज इति सुरांस्त्यक्तहेतीन् ब्रुवन्त्या
व्रीडां व्यापादितारिर्जयति विजयया नीयमाना भवानी ॥२१॥
----------------
[^१] ज० का० माऽसून् ।
[^२] ज० का० जहासी--।
[^३] ज० रर्थेश; का०-र्वित्तेश ।
[^४] ज० गदमगदस्योपयोगोऽयमेव ।
[^५] ज० जातश्चक्री ।