This page has been fully proofread once and needs a second look.

मायुधविशेषं हारे विन्यस्य, किंभूतं वज्रं हरेरिन्द्रस्य करो हस्तः ततो गलितं,
महिषक्षोभादिति विज्ञेयं, न केवलं वज्रं हारे विन्यस्य कण्ठसूत्रे ग्रैवेयके चक्रं
विन्यस्य तदपि हरिकरगलितं विष्णुकराद्भ्रष्टम् । अब्धिर्वरुणस्तस्य पाशा अब्धि-
पाशास्तै: केशान् धम्मिल्लान् बद्ध्वा संयम्य, अत्र योग: कर्तुं युक्त इति वज्र-
चक्रे तत्र विन्यस्ते, केशबन्धस्तु दृढमावरुणपाशैः कृत इति भावार्थः । यातानैक्षत
देवानित्थंभूतान् जया मीलतः उत्सारणोत्का ह्रेपयन्ती, अत एव प्रधानदेवोपहास-
कारणेन ह्रीमत्या हैमवत्या तर्ज्जितेति ॥१९॥
 
खड्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः
शूलेनेशो यशोभाग्भवति परिलघुः स्याद्वधार्हे तु[^१] दण्डः ।
हित्वा हेतीरितीवाभिहतिबहलितप्राक्तनापाटलिम्ना
पार्यैण्ग्व प्रोषितासुं सुररिपुमवतात् कुर्वती पार्व्वती वः ॥२०॥
 
कुं० वृ०--पार्व्वती पर्व्वततनया वो युष्मान् अवतात् रक्षतु । किं कुर्वती,
पार्ष्याग् एव सुररिपुं प्रोषितासुं गतप्राणं कुर्वती ; एवकारोऽत्र साधनान्तरव्या-
वृत्यर्थः (22b) वामपादैकदेशेनेत्यर्थः, किंभूतया पार्ष्ण्या अभिहतिबहलितप्राक्तना-
पाटलिम्ना, अभिहतिरभिघातः तेन बहलितः सान्द्रीकृतः प्राक्तनः पूर्वः, आ
सामस्त्येन पाटलिमा यस्याः सा तथा तया, 'श्वेतरक्तस्तु पाटल:', पार्ष्णेः किल
नैसर्गिकं रक्तत्वं विद्यते, अविद्यते न ; तत् घनीभूतमित्यर्थः । किं कृत्वा इतीव
हेतीरायुधानि हित्वा त्यक्त्वा, इतीति किं खड्गादिषु आयुधेषु सत्सु किं इति
पार्ष्णिप्रयासाय परमेश्वरी प्रवृत्ता तत्कविः श्लेषोक्त्योत्प्रेक्ष्य आह, खड्गस्ताव-
त्तिष्ठतु, कथं-खड्गे पानीयं विद्यते तच्च महिषं आह्लादयति यो यस्याह्लादको
भवति स तस्य मारणाय प्रवर्त्तते ? पानीयं खलु लोके महिषाह्लादजनकं भवति,
उत्तेजिते खड्गे निर्म्मला छाया पानीयशब्देन व्यवह्रियते । तर्हि बाणः किमिति
नोपात्तं तदाऽऽह, पृषत्को बाणः हि यस्मात् पक्षपाती, पक्षे पततीत्येवंशीलः, अत्रो-
क्तिलेशः यः पक्षपाती भवति स परं प्रति प्रहितो न कार्यं साधयतीति न शत्रुषु
प्रेरयितुं योग्यः । आत्मीयभावः पक्षपातः 'उभयवेतनी पक्षपाती च न तेषु
प्रयोज्य' इति हि नीतिविदां रहस्यं, अत्रोभयत्र शब्दच्छलम् । किं च शूलेन महिषे
हते ईश ईश्वरो यशोभाग्भवति, सत्यपि देव्याः शूले आयुधे ईश्वरस्येवाऽसाधा-
रणमायुधमिति शूलीति नामश्रवणात् । अतः शूलं न तत्र व्यापारयामास, तदा
आयुधेन हननात् तस्यैव यशो भवतीति । अथ ईष्टे इति 'ईट् क्विपि' षष्ठ्यन्त-
 
-----------------
[^१] ज० का० स्याद्वधार्हेऽपि ।