This page has not been fully proofread.

५८ ]
 
महाकवि-वाण-विरचितं चण्डोशतकम्
 
वज्र' विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च चक्र
 
केशान् बद्ध्वाब्धिपाशैघृतधनदगदा प्राक्प्रलीनान् विहस्य ।
देवानुत्सारणोत्का किल महिषहतौ मीलतो होपयन्ती
 
हीमत्या हैमवत्या विमतिविहतये तजिता स्ताज्जया वः ॥१६॥
 
[ पद्याङ्क १९ व्याख्या
 
कुं० वृ० - जया देव्याः प्रतीहारी वो युष्माकं विमतिविहतये स्तात् दुर्म्मति-
विनाशाय भूयात्, किविशिष्टा जया, तर्जिता भत्सिता, कया हैमवत्या पार्श्वत्या,
किंभूतया ह्रीमत्या, ह्रीविद्यते यस्याः सा ह्रीमती तया, इदं कर्म यन्मयाऽद्भुत-
मकारि तत्पुरुषस्य कर्तुर्युक्त न अवलाया इति; अथवा सतां स्वकीयकृत-
कर्म्मख्यापने लज्जा भवत्येव । किंभूतान् देवान् हेपयन्ती लज्जां प्रापयन्ती, कि
कृत्वा विहस्य ग्रर्थात् देवान् किंभूतान् प्राकृप्रलीनान्, पूवं पलायितान्, पुनः
किंभूतान्, किल इति मन्ये, महिषवधे मीलतः एकीभवतः । किविशिष्टा जया
उत्सारणोत्का निवारणतत्परा, पुनः किंभूता जया, धृतधनदगदा घृता गृहीता
धनदस्य गदा यथा सा तथा अन्याऽपि प्रतीहारी किल गृहीतवेत्रा भवति, भयत्रस्तं-
-
धनदहस्तयुतां गदां वेत्रस्थाने कृत्वेत्यर्थ: । कि कृत्वा, हारे हारयण्टी वज्रं इन्द्रा-
युधं विन्यस्य, हारे किल वज्रो हीरको विन्यस्यते; वज्रं हरिकरगलितं इन्द्र-
हस्ताच्च्युतं; वज्रशब्द उभयलिङ्गः । च पुनः कण्ठसूत्रे कण्ठाभरणस्थाने चक्रं विन्य-
स्थति, पक्षे चक्रं कण्ठाभरणविशेषः, किंभूतं चक्रं, हरिकरगलितं इन्द्रहस्तात्
कृष्णकराच्च्यतं पुन: कि कृत्वा अव्धिपाशैर्वरुणपाशे: केशान् बद्ध वा संयम्य,
श्रव्विशब्देनाऽत्र तदधिष्ठात्री देवता वरुणो लभ्यते । ननु कथमन्त्राsब्धिशब्देन
वरुणः प्रतिपाद्यते, यावता न केनापि अव्धिशब्देनाऽभिधीयते ? उच्यते, अवधे:
पाशाऽसंभवात्, तात्स्थ्यादभेदोपचाराद्वा लक्षणया वरुण उच्यते ॥१६॥
 
,
 
.
 
*
 
+
 
सं० व्या० - १६. वज्रमिति ॥ जया गौर्या: प्रतीहारी स्तादस्तु वो युष्माकं
किमर्थं विमतिविहंतये, विरूपा मतिविमतिस्तस्या विहतिविमतिविहतिस्तस्यै विमति-
विहतये, तादर्थ्ये चतुर्थी । किविशिष्टा जया, तर्जिता शिष्टा, कया हिमवतोऽपत्यं
हिमवती ( हैमवती ) । ह्रीविद्यते यस्याः सा ह्रीमती तया ह्रीमत्या हैमवत्या ।
कि कुर्वती जया, हेपयन्ती लज्जयन्ती, कान्, देवान्, कि कुर्वतः, मीलतः
एकीभवतः, क्व महिपहती महिषवधे, किंभूता जया, प्रतीहारकर्मणि स्थिता
किलोत्सारणोत्का, विहस्योपहस्य, किभूतान् प्राक् प्रलीनान् प्राक् पूर्वं प्रकर्षेण
लीनान् श्रदर्शनमुपगतान् । हासस्तु तदीयमुक्तायुधग्रहणेनैव दर्शितः, तथोच्यते वज्रं
विन्यस्येत्यादि किंभूता जया उत्सारणोत्का, कि कृत्वा घृतघनंदगदा वज्र-
.