This page has been fully proofread once and needs a second look.

दुर्व्वारस्य द्युधाम्नां महिषितवपुषो विद्विषः पातु युष्मान्
पार्व्वत्याः प्रेतपालस्वपुरुषपरुषं[^१] प्रेषितोऽसौ पृषत्कः ।
यः कृत्वा लक्ष्यभेदं क्षतभुवनभयो[^२] गां विभिद्य प्रविष्टः
पातालं पक्षपालीपवनकृतपतत्तार्क्ष्यशङ्काकुलाहिः ॥१८॥
 
कुं० वृ०--असौ पृषत्को बाणो युष्मान् पातु रक्षतु, कथंभूतः पृषत्कः
पार्व्वत्याः प्रेषितः, कथं यथा भवति प्रेतपालस्वपुरुषपरुषं यथा स्यात् तथा, स्वकीयः
पुरुषः स्वपुरुषः प्रेतपालस्य स्वपुरुषः प्रेतपालस्वपुरुषः तद्वत्परुषः कठोरः, अत्र प्रेत-
पालपुरुष: एतावतैव यमदूते लब्धे स्वग्रहणं निजत्वविश्वासस्थानीयत्वं द्योतयति,
प्राणान् अनुपादाय नागच्छतीत्यर्थः । असाविति कः, यः पृषत्कः, विद्विषो माया-
बलात् सिंहादिरूपाणि विधायनानि (? ) देव्या प्रकिञ्चित्कराणि मत्त्वा पुनर्महिषी-
कृतशरीरस्य; तदुक्तं मार्कण्डेयेन 'ततः सिंहोऽभवत्स(22a)द्यः’ इत्यादि ; किं-
विशिष्टस्य विद्विषः महिषितवपुषः, महिषितं महिषीकृतं वपुर्येन स तथा तस्य, लक्ष्यभेदं
कृत्वा पातालं प्रविष्टः, लक्ष्यस्य भेदो लक्ष्यभेदः, विद्विषः लक्ष्यस्य भेदं कृत्वा इति
वक्तव्ये लक्ष्यभेदमिति सापेक्षोऽयं समासः । कथंभूतः क्षतभुवनभयः निवारितत्रिभुवन-
भीतिः किं कृत्वा पातालं प्रविष्टः, गां विभिद्य भित्वा, कथंभूतं पातालं पक्षाणां
पाल्यः पङ्क्तयः पक्षपाल्य: पक्षपालीनां पवनो वायुः तेन कृता या पततस्तार्क्ष्यस्य
शङ्का भीतिः तथा आकुला अहयो यत्र तत् तथा ॥ १८॥
 
सं० व्या०--१८. दुर्वारस्येति ॥ असौ पृषत्को वो युष्मान् पातु रक्षतु ।
पार्वत्याः प्रेषितः प्रहितः प्रेतपालस्वपुरुषपरुषः प्रेतपालो यमस्तस्य पुरुष
आत्मीयो मनुष्यः तद्वत् परुषों निष्ठुरः, किमुक्तं भवति यमदूतकायः कस्य प्रेषितो,
विद्विषः शत्रोः, किम्भूतस्य महिषितवपुषः, माहिषं वपुः शरीरं यस्य तस्य, पुनः
किंभूतस्य दुर्वारस्य, केषां द्युधाम्नां देवानां द्यौः निवासो धाम येषां इति विग्रहः ।
यः कीदृशः शरः पातालं प्रविष्टः रसातलाभ्यन्तरीभूतः, यः पूर्व कीदृशो लक्ष्यं
प्रकृतत्वान्महिषस्तस्य भेदो लक्ष्यभेदो लक्ष्यभेदस्तं कृत्वा कृतं भुवनभयं येन स
तथोक्तः । एतदुक्तं भवति, महिषे भिन्ने सति भुवनानामपि भयमुदपादि मास्या नेष
भीनदीती (?) [गामेषोऽभिनदिति] किंविधो यः पातालं प्रविष्टः पक्षपालीपवन-
कृतपतत्तार्क्ष्यशङ्काकुलेन आकुला अहयो येन सः तथोक्तः, यथा पूर्वं सुपर्णेन
पातालं पतता पक्षपालीपवनेन फणिनस्त्रासितास्तथा पार्वतीशरेणापि ॥ १८॥
-------------------
[^१] ज० का० प्रेतपालस्वपुरुषपरुषः ।
[^२] का० हृतभुवनभयो; ज० कृतभुवनभयो ।