This page has not been fully proofread.

पघाङ्क १८ व्याख्या
 
मेदवाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
दुर्व्वारस्य धाम्नां महिषितवपुषो विद्विषः पातु युष्मान्
• पावत्याः प्रेतपालस्वपुरुषपरुषं प्रेषितोऽसौ पृषत्कः ।
यः कृत्वा लक्ष्यभेदं क्षतभुवनभयो गां विभिद्य प्रविष्टः
 
9.
 
"
 
पातालं पक्षपालीपवनकृतपतत्तार्क्ष्यशङ्काकुलाहिः ॥१८॥
कुं० वृ० - असो पृषत्को बाणो युष्मान् पातु रक्षतु कथंभूतः पृषत्कः
पावत्याः प्रेषितः कथं यथा भवति प्रेतपालस्वपुरुषपरुषं यथा स्यात् तथा स्वकीय
पुरुषः स्वपुरुषः प्रेतपालस्य स्वपुरुष:- प्रेतपालस्वपुरुषः तद्वत्परुषः कठोरः अत्र प्रेत-
पालपुरुष: एतावतैव यमदूते लब्धे स्वग्रहणं निजत्वविश्वासस्थानीयत्वं द्योतयति,
प्राणान् अनुपादाय नागच्छतीत्यर्थः । प्रसाविति कः यः पृषत्कः, विद्विषो माया-
बलात् सिंहादिरूपाणि विधायनानि ( ? ) देव्या प्रकिञ्चित्कराणि मत्त्वा पुनर्महिषी-
कृतशरीरस्य; तदुक्त मार्कण्डेयेन 'ततः सिंहोऽभवत्स (22. a) द्य: इत्यादि कि
विशिष्टस्य विद्विषः महिषितवपुषः, महिषितं महिषीकृतं वपुर्येन स तथा तस्य, लक्ष्यभेदं
कृत्वा पातालं प्रविष्टः, लक्ष्यस्य भेदो लक्ष्यभेदः, विद्विषः लक्ष्यस्य भेदं कृत्वा इति
चक्तव्ये लक्ष्यभेदमिति सापेक्षोऽयं समासः । कथंभूतः क्षतभुवनभयः निवारितत्रिभुवन-
भीतिः किं कृत्वा पातालं प्रविष्टः, गां विभिद्य भित्वा, कथंभूतं पातालं पक्षाणां
पाल्यः पङ्क्तयः पक्षपाल्य: पक्षपालीनां पवनो वायुः तेन कृता या पततस्तार्क्ष्यस्य
शङ्का भीतिः तथा प्राकुला प्रहयो यत्र तत् तथा ॥ १८॥
 
1
 
..
 
सं० व्या० - १८. दुर्वारस्येति ॥ प्रसो पृषत्को वो युष्मान् पातु रक्षतु ।
पार्वत्याः प्रेषित: प्रहितः प्रेतपालस्वपुरुषपरुष: प्रेतपालो यमस्तस्य पुरुष
आत्मीयो मनुष्यः तद्वत् परुषों निष्ठुर: किमुक्त भवति यमदूतकायः कस्य प्रेषितो,
विद्विषः शत्रोः किम्भूतस्य महिषितवपुषः, माहिषं वपुः शरीरं यस्य तस्य पुनः
किभूतस्य दुर्वारस्य, केषां द्युधाम्नां देवानां द्यौः निवासो घाम येषां इति विग्रहः ।
यः कीदृशः शरः पातालं प्रविष्टः रसातलाभ्यन्तरीभूतः यः पूर्व कीदृशो लक्ष्यं
प्रकृतत्वान्महिषस्तस्य भेदो लक्ष्यभेदो लक्ष्यभेदस्तं कृत्वा कृतं भुवनभयं येन स
तथोक्तः । एतदुक्तं भवति, महिषे भिन्ने सति भुवनानामपि भयमुदपादि मास्या नेप
भीनदीती (?) [गामेषोऽभिनदिति] किंविधो यः पाताल प्रविष्टः पक्षपालीपवन-
कृतपतत्तार्क्ष्यशङ्काकुलेन प्राकुला ग्रहयो येन सः तथोक्तः, यथा पूर्व सुपर्णेन
पातालं पतता पक्षपालीपवनेन फणिनस्त्रासितास्तथा पार्वतीशरेणापि ॥ १८॥
 
.'
 
:
 
१२ ज० का० प्रेतपालस्वपुरुषपरुषः ।
का० हृतभुवनभयो; ज० कृतभुवनभयो ।