2023-03-13 20:56:08 by manu_css
This page has been fully proofread once and needs a second look.
कुं०वृ०--सा उमा पार्व्वती वो युष्माकं श्रिये स्तात् भूत्यै भूयात्, सा का यस्याः
स इति प्रसिद्धो महिषः सुररिपुः नूपरान्तावलम्बी सन् लोलेन्द्रनीलोत्पलशकलतुलां
लेभे । इन्द्रनीलश्चासावुत्पलश्च इन्द्रनीलोत्पलः, लोलश्चासाविन्द्रनीलोत्पलश्च
लोलेन्द्रनीलोत्पलः तस्य शकलं खण्डः तस्य तुलां तां; किंभूतः पादोत्पिष्ट: पादेन
उत्पिष्ट: चूर्णितः पादोत्पिष्टः, यस्याः नूपुरे पादाभरणे इयानपि महिषः लोलेन्द्र-
नीलशकलवत् लघुर्दृष्ट इत्यर्थः । स कः यो द्युवसतिभिर्देवैः वीक्षितः, किं
कुर्व्वन्, धरित्रीं रुन्धन् आवृण्वन्, पुनः किंविशिष्टः असिश्यामधामा, असेरिव
श्यामं धाम यस्यासावसिश्यामधामा । कैः कैरित्युत्प्रेक्षायामाह, किंभूतैर्देवैः
नाकौकोनायकाद्यैः नाके ओकांसि येषां ते नाकौकसः, तेषां नायक इन्द्रः स आद्यो
येषां ते तथा तैः, पुनः किंभूतैः वर्द्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिः, वर्द्धते
इत्येवं शीलो वर्द्धिष्णुः, वर्द्धिष्णुश्चासौ विन्ध्याचलश्च वर्द्धिष्णुविन्ध्याचलः,
वर्द्धिष्णुविन्ध्याचलेन चकिता मनोवृत्तिर्येषां ते तथा तैः, उपमागर्भं विशेषणम् ।
यथा पूर्व्वं सूर्यवर्त्मनिरोधार्थं वर्द्धमाने विन्ध्याद्रौ देवान् भयमाविशत् तथैवाऽयं
भूमण्डलं मारयिष्यतीति त्रस्तमनस्कैरित्यर्थः ॥१७॥
सं० व्या०--१७. सा उमा गौरी वो युष्माकं श्रियै विभूत्यै स्तात् भवतु,
स्तादिति तु 'ह्योस्तातङाशिषि चे’ति तातङादेशः यस्याः उमायाः पादोत्पिष्ट:
पादेन चूर्णितो वर्तुलीकृतः अपकृतोऽपि लघुतामापन्नः स महिषः सुररिपुः लेभे
लब्धवान्, महिषश्चासौ सुररिपुश्चेति विग्रहः, कां लेभे लोलेन्द्रनीलोपलशकलतुलां
इन्द्रनीलश्चासौ उपलश्च इन्द्रनीलोपलस्तस्य शकलं भित्तं इन्द्रनीलोपलशकलं
लोलं च तत् इन्द्रनीलोपलशकलं च तस्य तुलां तुल्यतां लेभे इत्यर्थः । किंभूतो
महिषो नूपुरान्तावलम्बी, नूपुरस्यान्तो मध्यं तदवलम्बितुं शीलमस्येति नूपुरान्ताऽ-
बलम्बी नूपुरमध्यगत इत्यर्थः । किविशिष्टः, वीक्षितः प्रवलोकितः, किं कुर्वन्
रुन्धन् आवृण्वन् विपुलत्वेन, धात्रीं धरित्रीं, कैः दृष्टो, द्युवसतिभिः द्यौः
स्वर्गो निवासो वसतिर्येषामिति विग्रहः, नाकौकसो देवास्तेषां नायक इन्द्रः स
आद्यः आदिमो येषां तैस्तथोक्तैः । किंभूतो महिष: असिश्यामधामा असिरिव
श्यामं धाम यस्य सः तथोक्तः, य एवंविधः अत एवोक्तं वर्द्धिष्णुविन्ध्याचलचकित-
'मनोवृत्तिभिर्वीक्षितः इति, वर्द्धनशीलः वर्द्धिष्णुश्चासौ विन्ध्याचलश्च तत्र चकितं
शङ्कितं यन्मनस्तत्रवृत्तिर्वर्त्तनं येषां तैः तथोक्तैः द्युवसतिभिरिति ॥१७॥