This page has not been fully proofread.

महाकविवाण-विरचितं चण्डीशतफम् [ पद्याङ्क १७ व्याख्या
 
कुं०वृ० सा उमा पार्व्वती वो युष्माकं श्रिये स्तात् भूत्यं भूयात्, सा का यस्याः
स इति प्रसिद्धो महिपः सुररिपुः नूपरान्तावलम्बी सन् लोलेन्द्रनीलोत्पलशकलतुलां
लेभे । इन्द्रनीलश्चासावुत्पलश्च इन्द्रनीलोत्पलः, लोलश्चासाविन्द्रनीलोत्पलश्च
लोलेन्द्रनीलोत्पलः तस्य शकलं खण्डः तस्य तुल तां; किभृतः पादोस्पिष्ट: पादेन
उत्पिष्ट: चूर्णितः पादोत्पिष्टः, यस्याः नूपुरे पादाभरणे इयानपि महिपः लोलेन्द्र-
नीलशकलवत् लघुष्ट इत्यर्थः । स कः यो युवसतिभिर्देवैः वोक्षितः, किं
कुर्व्वन, घरित्रों रुन्धन् आवृण्वन् पुनः किविशिष्ट : असिश्यामघामा, प्रसेरिव
श्यामं घाम यस्यासावसिश्यामधामा । कैरित्युत्प्रेक्षायामाह, किंभूर्तदेवैः
नाकोकोनायकाद्यैः नाके ग्रोकांसि येषां ते नाकोकसः, तेपां नायक इन्द्रः स ग्रा
येषां ते तथा तैः पुनः किभूतैः वृद्धिष्णुविन्ध्याचलचकिंत मनोवृत्तिभिः, वर्द्धते
इत्येवं शीलो वर्द्धिष्णुः, वद्धिष्णुश्चासौ विन्ध्याचलश्च वर्द्धिष्णुविन्ध्याचलः,
वद्धिष्णुविन्ध्याचलेन चकिता मनोवृत्तिर्येषां ते तथा तैः, उपमागर्भ विशेषणम् ।
यथा पूर्व्वं सूर्यवर्त्मनिरोधार्थं वर्द्धमाने विन्ध्यागो देवान् भयमाविशत् तथैवाभ्यं
भूमण्डलं मारयिष्यतीति त्रस्तमनस्कैरित्यर्थः ॥१७॥
 
५६ ]
 

 
-
 
सं० व्या० - १७. सा उमा गोरी वो युष्माकं श्रियै विभूत्यै स्तात् भवतु,
स्तादिति तु 'ह्योस्तातङाशिपि चेति तातङादेशः यस्या: उमायाः पादोत्पिष्ट:
पादेन चूर्णितो वतु लोकृतः श्रपंकृतोऽपि लघुतामापन : स महिपः सुररिपुः लेभे
लव्धवान्, महिपश्चासौ सुररिपुश्चेति विग्रहः, कां लेभे लोलेन्द्रनीलोपलशकलतुलां
इन्द्रनीलश्चासो उपलश्च इन्द्रनीलोपलस्तस्य शकलं भित्तं इन्द्रनीलोपलशकलं.
लोलं च तत् इन्द्रनीलोपलशकलं च तस्य तुलां तुल्यतां लेभे इत्यर्थः । किंभुतो
महिपो नूपुरान्तावलम्बी, नूपुरस्यान्तो मध्यं तदवलम्वितु' शीलमस्येति नूपुरान्ताङ
बलम्बी नूपुरमध्यगतं इत्यर्थः । किविशिष्टः, वीक्षितः प्रवलोकितः, कि कुर्वन्
रुन्धन् श्रावृण्वन् विपुलत्वेन, घात्रों घरित्रों, कैः दृष्टो द्युवमतिभिः द्यौः
स्वर्गो निवासो वसतिर्येषामिति विग्रहः, नाकोकसो देवास्तेषां नायक इन्द्रः स
श्राद्यः श्रादिमो येषां तैस्तथोक्त: । किंभूतो महिष: असिश्यामधामा असिरिव
श्यामं घाम यस्य सः तथोक्तः, य एवंविधः श्रत एवोक्त वद्धिष्णुविन्ध्याचलचकित-
'मनोवृत्तिभिर्वीक्षितः इति, वर्द्धनशीलः वद्धिष्णुश्चासौ विन्ध्याचलश्च तत्र चकितं
शङ्कितं यन्मनस्तत्रवृत्तिवत्र्त्तनं येषां तैः तथोक्त: युवसतिभिरिति ॥१७॥
 
: