This page has been fully proofread once and needs a second look.

महि यथा भवति, उपान्ते समीपे प्लुता मही यस्मिन् तत्, क्रियाविशेषण-
स्वान्नपुंसकता । किं कुर्व्वन् नृत्यन् पुनः किंविशिष्टः देवानां(21b) हासेन, नेयं सन्ध्या
भ्रान्तोऽहमिति मत्वा सपदि इति वादी इत्युक्तिपरः वदन्, इतीति किं सन्ध्या-
भ्रान्तोऽयं नृत्यतीति नाशङ्कनीयं किन्तु मत्प्रियायाः विजयमहं विजयमहोत्सवं मान-
यामि पूजयामीति, वा यां आश्लिष्य पुनर्नर्त्तितुं प्रवृत्तः सा पात्विति वाक्यार्थः ।
पुरां भेत्ताऽपि भगवत्याः सर्व्वातिशायि कर्म दृष्ट्वा पुरभेदनमपि आत्मनः कर्म्म
कनीयो मत्वा विस्मितः सन् प्रियाया विजयमहे नर्त्तनमुचितं करोमीति भावः ।
अत्र भ्रान्तिमानलङ्कारः ॥१६॥
 
सं० व्या०--१६. सा पार्वती पर्वतपुत्री वो युष्मान् पातु रक्षतु, यां
पार्वतीमाश्लिष्यालिङ्ग्य पुनरपि भूयोऽपि पुरभित् त्रिपुरारि: प्रवृत्तो
नर्त्तितुमारब्धवान्, आदि कर्मणि क्त कर्त्तरि चेति पूर्वं, किं कुर्वन् नृत्यन् कथंभूतः
जातसन्ध्याप्रमोहः जातो भूतः सन्ध्यायाः प्रमोहो भ्रमो यस्य सः तथोक्तः, किल
सन्ध्यासमये हरो नृत्यतीति भावः, क्व सति जातसन्ध्याप्रमोहस्तदुच्यते आरज्यमाने
आसमन्तात् रज्यमाने रक्ततया युज्यमाने, सपदि तत्क्षणं, क्व वर्त्मनि मार्गे केषां
मखभुजां देवानां कया रज्यया रक्ततया युज्यमाने वर्त्मनि स्रवन्त्या नद्या, किं
कुर्वत्या उत्पतन्त्या ऊर्ध्वं गच्छन्त्या, कुतो महिषात् महिषरूपिणो दानवात् आरज्य-
मान इति वचनात् रक्तं स्रवन्त्येति गम्यते, कथमुत्पतन्त्या उपान्तक्षतमहि उपान्तेऽ-
ऽभ्यर्णे क्षता मही यस्मिन् उत्पतने तद्यथा भवति एवमुत्पतन्त्या; समा(हार)
विधेरनित्यत्वात् तद्यु(क्त)श्चेति क प्रत्ययो न जातः ततः क्रियाविशेषणत्वात्
नपुंसकलिङ्गत्वे ह्रस्वमिति किं तत्त्वान्महिषात् उत्पतन्त्या शूलप्रोतात् शूलेनायुध-
विशेषेण प्रोताद्भिन्नादित्यर्थः, कि कृत्त्वा हरः पुनरपि प्रवृत्तः इत्युच्यते मत्वा
सन्ध्या न भवति अस्मद्भार्याशूलप्रोतमहिषोत्पतद्रक्तनदीस्थमेवाकाशमिति
ज्ञात्वा ततो हासेन परितोषेण च विजयमहं विजयमहोत्सवं मानयामि पूजयामि
अहमित्यवादीत् एवमुक्त्वा पुरभित् यामाश्लिष्य पुनरपि प्रवृत्त इति
सम्बन्धः ॥ १६॥
 
नाकौकोनायकाद्यैर्द्युवसतिभिरसिश्यामधामा धरित्रीं
रुन्धन् वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिर्वीक्षितो यः ।
पादोत्पिष्टः स यस्या महिषसुररिपुर्नूपुरान्तावलम्बी
लेभे लोलेन्द्रनीलोत्पलशकलतुलां[^१] स्तादुमा सा श्रिये वः ॥ १७॥
 
--------------
[^१] ज० का० लोलेन्द्रनीलोपलशकलतुलां ।