2023-02-24 17:17:36 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क १६-१७ व्याख्या । मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
[ ५५
"
महि यथा भवति, उपान्ते समीपे प्लुता मही यस्मिन् तत् क्रियाविशेषण-
स्वान्न पुंसकता । किं कुर्व्वन् नृत्यन् पुनः किं विशिष्ट : देवानां (21b) हासेन, नेयं सन्ध्या
भ्रान्तोऽहमिति मत्वा सपदि इति वादी इत्युक्तिपर: वदन्, इतीति कि सन्ध्या-
भ्रान्तोऽयं नृत्यतोति नाशङ्कनीयं किन्तु मत्प्रियायाः विजयमहं विजयमहोत्सवं मान-
यामि पूजयामीति, वा यां आश्लिष्य पुनर्नत्ततु प्रवृत्तः सा पारिवति वाक्यार्थः ।
पुरां भेत्ताऽपि भगवत्याः सर्व्वातिशायि कर्म दृष्ट्वा पुरभेदनमपि श्रात्मनः कर्म्म
कनीयो मत्वा विस्मितः सन् प्रियाया विजयमहे नर्त्तनमुचितं करोमीति भावः ।
प्रत्र भ्रान्तिमानलङ्कारः ॥१६॥
.
}
सं० व्या० - १६. सा पार्वती पर्वतपुत्री वो युष्मान् पातु रक्षतु, यां
पार्वतीमाश्लिष्यालिङग्य पुनरपि भूयोऽपि पुरभित् त्रिपुरारि: प्रवृत्तो
नत्तितुमारब्धवान्, आदि कर्मणि क कर्त्तरि चेति पूर्वं, किं कुर्वन् नृत्यन् कथंभूतः
जातसन्ध्याप्रमोहः जातो भूतः सन्ध्यायाः प्रमोहो भ्रमो यस्य सः तथोक्तः, किल
सन्ध्यासमये हरो नृत्यतीति भावः, क्व सति जातसन्ध्याप्रमोहस्तदुच्यते आरज्यमाने.
श्रासमन्तात् रज्यमाने रक्ततया युज्यमाने, सपदि तत्क्षणं, क्व वर्त्मनि मार्गे केषां
मखभुजां देवानां कथा रज्यया रक्ततया युज्यमाने वर्त्मनि सवन्त्या नद्या, कि
कुर्वत्या उत्पतन्त्या ऊर्ध्वं गच्छन्त्या, कुतो महिषात् महिषरूपिणो दानवात् आरज्य-
मान इति वचनात् रक्त स्रवन्त्येति गम्यते, कथमुत्पतन्त्या उपान्तक्षतमहि उपान्ते -
ऽभ्य क्षता मही यस्मिन् उत्पतने तद्यथा भवति एवमुत्पतन्त्या; समा ( हार )
विधेर नित्यत्वात् तद्यु (क्त ) श्चेति क. प्रत्ययो न जातः ततः क्रियाविशेषणत्वात्
नपुंसकलिङ्गत्वे ह्रस्वमिति किं तत्त्वान्महिषात् उत्पतन्त्या शूलप्रोतात् शूलेनायुध-
विशेषेण प्रोताद्भिन्नादित्यर्थः, कि कृत्त्वा हरः पुनरपि प्रवृत्तः इत्युच्यते मत्वा
सन्ध्या न भवति अस्मद्भार्याशूलप्रोतमहिषोत्पतद्रक्तनदीस्थमेवांकाश मिति
ज्ञात्वा ततो हासेनं परितोषेण च विजयमहं विजयमहोत्सवं मानयामि पूजयामि
अहमित्यवादीत् एवमुक्त्वा पुरभित् यामाश्लिष्य पुनरपि प्रवृत्त इति
सम्बन्धः ॥ १६॥
नाकौको नायकाद्य वसतिभिरसिश्यांमधामा धरित्रीं
.
रुन्धन् वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिर्वीक्षितो यः ।
पादोत्पिष्टः स यस्या महिषसुररिपुर्नू पुरान्तावलम्बी
लेभे लोलेन्द्रनीलोत्पलशकलतुलां' स्तादुमा सा श्रिये वः ॥ १७॥
१. ज० का० लोलेन्द्रनीलोपलशकलतुलां ।