This page has not been fully proofread.

इन्द्रसहस्रे प्रथमं शतकम्
 
विद्युत्प्रतापेन पचन्त्समन्तात्
गृह्णातु मे वागुपहारमिन्द्रः ॥ ४७॥
 
राज्याय तन्वन्भुवनेषु शास्त्रं
वज्रं दधानो ज्वलदुग्रमस्त्रम् ।
स्वाभाविकः सर्वजगन्नपालो
गृह्णातु मे वागुपहारमिन्द्रः ॥ ४८॥
 
इन्द्रस्य दृष्टिः सरतादितो नः
तप्ताननाथानभिलक्ष्य दीनान् ।
नीचैः शयाते परिभूयमानौ
देशश्च वंशश्च समेषु येषाम् ॥ ४९ ॥
 
एताः कवीनामधिपस्य पूताः
त्रातारमात्मानमशेषजन्तोः ।
 
नाथं सुराणां नयनं मुनीनाम्
इन्द्रं भजन्तां हरिमिन्द्रवज्राः ॥५० ॥
 
तृतीयो दैवस्तबकः - गायत्रः
 
वज्रप्रहरणं विश्वस्य शरणम् ।
गायामि सगणं तद्ब्रह्म सगुणम् ॥ ५१ ॥
 
त्रैलोक्यपृथिवीसिंहासनपतिः ।
विश्वम्भरमतिर्दैवं मम वृषा ॥ ५२ ॥
 
६५