This page has not been fully proofread.

६४
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
एको रसः सर्वरसानुभूतौ
सर्वज्ञतायामभिदा च वित्तिः ।
नित्यात्मनिष्ठेष्वपि सम्प्रदृष्टे
तत् किं द्वयं विश्वपतावसाध्यम् ॥ ४२॥
 
भावेन स प्राणिति नानिलेन
बुद्धया विजानात्यखिलानि नाक्षैः ।
सम्मोदते पूर्णतया न भोगैः
ईष्टे स्वशक्त्या न चमूबलेन ॥ ४३ ॥
 
तस्य स्वराजः सहजं चतुष्कं
सत्तामतिर्व्यापकता च शक्तिः
एकं परस्तादविभक्तमेतत्
दृष्टिप्रभेदाभुवनेऽत्र भक्तम् ॥ ४४ ॥
 
सत्ता च सन्वाङमयमुद्गतं चेद्-
वित्तिश्च वेत्ता यदि काप्यहन्ता ।
मोदश्च मोदी यदि भोग्यमन्यत्
शक्तिश्च शक्तो यदि कार्यजालम् ॥ ४५ ॥
 
भोक्ता दिवः पक्तृतमः पृथिव्या
आकाशदेशेन महाशरीरी ।
शक्तेरधीशः शमनोऽसुराणां
गृह्णातु मे वागुपहारमिन्द्रः ॥ ४६॥
 
सूर्यस्य भासा प्रतपन्नभस्तो
ज्वालाभिरग्नेः प्रदहन् पृथिव्याम् ।