2023-11-19 19:22:16 by ambuda-bot
This page has not been fully proofread.
इन्द्रसहस्रे प्रथमं शतकम्
बोधः प्रपूर्णश्च सुखो निसर्गात्
तद्योगनिद्रानुभवे प्रसिद्धम् ॥३६॥
वस्तुस्वरूपं परमः प्रकाशो
बोधः स एव प्रमदः स एव ।
भावः स एवानुभवैकगम्यः
स्वर्भूमिपालश्च स एव नम्यः ॥३७॥
सूक्ष्मो विराजन्नखिलस्य राजा
शब्दायते सूक्ष्ममयं प्रकाशः ।
तस्मिन्नखण्डे परमानुभूतिः
काचित् प्रपूर्णा लसति प्रकाशे ॥ ३८ ॥
सत्ता विभा नादपरा न काचित्
चित्तिश्च शब्दादितरा न कापि ।
मोदश्च नाखण्डनिजानुभूतेः
अन्या न काचिद्यदि चिन्तयामः ॥ ३९ ॥
स्थूलाः प्रकाशश्च रसश्च शब्दः
स्थूलप्रपञ्चे पृथगत्र भान्तु ।
वस्त्वेकमेव त्रितयं तदेतत्
सूक्ष्मत्वकाले यदि चिन्तयामः ॥ ४० ॥
शुद्धस्वरूपे न रसान्तराणां
ज्ञानान्तराणां च भवेत्प्रवेशः ।
विश्वान्तरे सर्वरसानुभूतिः
सर्वज्ञता च प्रगुणे विभातः ॥ ४१ ॥
६३
बोधः प्रपूर्णश्च सुखो निसर्गात्
तद्योगनिद्रानुभवे प्रसिद्धम् ॥३६॥
वस्तुस्वरूपं परमः प्रकाशो
बोधः स एव प्रमदः स एव ।
भावः स एवानुभवैकगम्यः
स्वर्भूमिपालश्च स एव नम्यः ॥३७॥
सूक्ष्मो विराजन्नखिलस्य राजा
शब्दायते सूक्ष्ममयं प्रकाशः ।
तस्मिन्नखण्डे परमानुभूतिः
काचित् प्रपूर्णा लसति प्रकाशे ॥ ३८ ॥
सत्ता विभा नादपरा न काचित्
चित्तिश्च शब्दादितरा न कापि ।
मोदश्च नाखण्डनिजानुभूतेः
अन्या न काचिद्यदि चिन्तयामः ॥ ३९ ॥
स्थूलाः प्रकाशश्च रसश्च शब्दः
स्थूलप्रपञ्चे पृथगत्र भान्तु ।
वस्त्वेकमेव त्रितयं तदेतत्
सूक्ष्मत्वकाले यदि चिन्तयामः ॥ ४० ॥
शुद्धस्वरूपे न रसान्तराणां
ज्ञानान्तराणां च भवेत्प्रवेशः ।
विश्वान्तरे सर्वरसानुभूतिः
सर्वज्ञता च प्रगुणे विभातः ॥ ४१ ॥
६३