This page has not been fully proofread.

६२
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
ब्रह्मागुणं गम्यतमं चकास्ति
त्रैलोक्यमिन्द्रः सगुणः प्रशास्ति ।
पूर्वस्य रूपं भवति त्रिपाद -
मन्यस्य विश्वेन सहैकपादम् ॥ ३१॥
 
यश्चागुणो यः सगुणश्च देवो
भावः स केषामपि पण्डितानाम् ।
मोदः सदा पूर्णरसोऽपरेषां
बोधः परेषां विदुषां मतेन ॥ ३२ ॥
 
भावः स नो चेदसतो मतिः का
बोधो न चेत् कीदृगिवास्य सत्ता ।
भावः प्रबोधश्च न चेद्वदन्तु
मोदो भवेदेष कथं सखायः ॥ ३३ ॥
 
पाषाणसत्तेव विनैव बोधं
 
तस्यापि सत्तेति न साधुवादः ।
पाषाणसत्ताऽपि विहाय बोधं
केनानुभूता सुधियो भणन्तु ॥ ३४॥
 
शुक्तौ यथा वा रजतस्य बोधो
बोधोऽप्यसंत्सम्भवतीति वादी ।
सत्येव तद्देशगतामसत्तां
बोधे समारोपयतीतरस्य ॥ ३५ ॥
 
मोदस्य भासो न विनाऽनुभूतिं
बोधं विना कस्य कुतोऽनुभूतिः ।