This page has not been fully proofread.

इन्द्रसहस्रे प्रथमं शतकम्
 
द्वितीयः स्वरूपस्तबकः - त्रैष्टुभः
 
देवं महेन्द्रं पदबन्धुपाप-
विध्वंसनं वज्रधरं नमामि ।
लोकान्तरं लोकमयं च यस्य
लोकातिगं च प्रविभाति रूपम् ॥२६॥
 
आत्मैव लोकः सकलो महीया-
नात्मैव लोकान्तरतामुपैति ।
आत्मैव लोकस्य परः परस्ता-
दात्मैव लोकाधिपतिर्महेन्द्रः ॥ २७ ॥
 
प्राक् सर्गतो निष्कल एक आसीत्
सत्पूर्णबोधाकृतिरादिदेवः ।
सप्राज्यशक्तिर्भुवनं ससर्ज
सृष्टस्य चाभूज्जगतोऽन्तरात्मा ॥ २८ ॥
 
यो भाति शुद्धो जगतः परस्तात्
यश्चान्तरात्मा जगतोऽखिलस्य ।
बाह्यालयाकाशवदेकरूपा-
वेतौ कवीनां वचनेषु भिन्नौ ॥ २९ ॥
 
लोकातिगं ब्रह्म वदन्ति शुद्धं
लोकान्तरं चालकमिन्द्रमाहुः ।
ज्ञेयोऽयमेकस्य परीक्षकाणां
दृष्टिप्रभेदादभिधानभेदः ॥ ३० ॥
 
६१