2023-11-19 19:22:16 by ambuda-bot
This page has not been fully proofread.
६०
स्तोत्रग्रन्थमाला - तृतीयो भागः
अहमथ स्तवे ततमनोद्रवे ।
अवतरामि भोस्तव दिवो विभो ॥ १७ ॥
मुखरयन् दिशो नुतिरवैर्नवैः ।
प्रजनयन् रसं दिवि मनोद्रवैः ॥ १८ ॥
समवलम्बते तव पदाम्बुजम् ।
अयमये वृषन्नव नवा निजम् ॥ १९ ॥
लसदलङ्कृतिं बहुगुणान्विताम् ।
रसवतीमतिश्रमविवर्धिताम् ॥ २० ॥
गिरमिमामहं त्रिदशभूपते ।
गुणवते सुतामिव ददामि ते ॥ २१ ॥
भव निषेवितो मम सुभाषया ।
पतिरिव प्रियो रुचिरयोषया ॥२२॥
स्तुतिरसौ लसद् बहु दयारसम् ।
विबुधभूपतेर्विशतु मानसम् ॥ २३ ॥
परमपावने स्वविषयावने ।
हरिनुतिर्बलं दिशतु नः फलम् ॥२४॥
नरमनोरमाः कविपतेरिमाः ।
सुरपतिस्तुतेरतिसुखं मुखम् ॥ २५ ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
अहमथ स्तवे ततमनोद्रवे ।
अवतरामि भोस्तव दिवो विभो ॥ १७ ॥
मुखरयन् दिशो नुतिरवैर्नवैः ।
प्रजनयन् रसं दिवि मनोद्रवैः ॥ १८ ॥
समवलम्बते तव पदाम्बुजम् ।
अयमये वृषन्नव नवा निजम् ॥ १९ ॥
लसदलङ्कृतिं बहुगुणान्विताम् ।
रसवतीमतिश्रमविवर्धिताम् ॥ २० ॥
गिरमिमामहं त्रिदशभूपते ।
गुणवते सुतामिव ददामि ते ॥ २१ ॥
भव निषेवितो मम सुभाषया ।
पतिरिव प्रियो रुचिरयोषया ॥२२॥
स्तुतिरसौ लसद् बहु दयारसम् ।
विबुधभूपतेर्विशतु मानसम् ॥ २३ ॥
परमपावने स्वविषयावने ।
हरिनुतिर्बलं दिशतु नः फलम् ॥२४॥
नरमनोरमाः कविपतेरिमाः ।
सुरपतिस्तुतेरतिसुखं मुखम् ॥ २५ ॥