This page has not been fully proofread.

इन्द्रसहस्रे प्रथमं शतकम्
 
तव कृपाकरस्तवविधौ रमे ।
अव महेन्द्र मामव कुलं च मे ॥ ८ ॥
 
अजर वाक् पतत्वियमयि त्वयि ।
अवतरत्वदस्तव महो मयि ॥ ९ ॥
 
ऋतविलोकने वितनुताद्बलम् ।
ऋतपते महो मम गिरामलम् ॥ १० ॥
 
कथयतां मनः कथमगोचरम् ।
नयतु ते महो वरद मे गिरम् ॥ ११ ॥
 
जयति कस्य वागमलदर्शना ।
भवति देवताकरुणया विना ॥ १२ ॥
 
तव गुणादिकं भुवननाथ मे ।
स्फुरतु दाहरे सरसिजे हरे ॥ १३ ॥
 
सकलदर्शिनीमतुलसारया ।
मम गुहां कुरु त्वमृतधारया ॥ १४ ॥
 
जयतु शक्रगा जयतु भास्वती ।
जयतु सत्यदृङ: मम सरस्वती ॥१५॥
 
अभिमतातये विफलतामिता ।
हरिहयाखिला पुरुषकारिता ॥ १६ ॥
 
५९