2023-11-19 19:22:15 by ambuda-bot
This page has not been fully proofread.
इन्द्रसहस्रे प्रथमं शतकम्
प्रथमः प्रारम्भस्तबकः
-
गायत्रः
मघवते शचीहृदयहारिणे ।
भगवते नमः कुलिशधारिणे ॥ १ ॥
जयति वृत्रजिज्जयति वज्रवान् ।
जयति विष्टपत्रितयराज्यवान् ॥ २ ॥
बहु शतेक्षणं भुवनसाक्षिणम् ।
हृदय तं परं स्मर पुरन्दरम् ॥ ३ ॥
त्रिदशपार्थिवं हृदय वासवम् ।
त्रिजगदन्तरं स्मर निरन्तरम् ॥४॥
परिजनो भवाम्ययि महेन्द्र ते ।
परिगृहाण मां सुमनसां पते ॥ ५ ॥
प्रतिवदेर्न मे वरद दासताम् ।
तव कृपाश्रिते मयि विवर्धताम् ॥ ६ ॥
अभृतितुम्बुरुप्रभृतिगीत ते ।
स्तुतिविधौ मदं मतिरुपेति मे ॥७॥
प्रथमः प्रारम्भस्तबकः
-
गायत्रः
मघवते शचीहृदयहारिणे ।
भगवते नमः कुलिशधारिणे ॥ १ ॥
जयति वृत्रजिज्जयति वज्रवान् ।
जयति विष्टपत्रितयराज्यवान् ॥ २ ॥
बहु शतेक्षणं भुवनसाक्षिणम् ।
हृदय तं परं स्मर पुरन्दरम् ॥ ३ ॥
त्रिदशपार्थिवं हृदय वासवम् ।
त्रिजगदन्तरं स्मर निरन्तरम् ॥४॥
परिजनो भवाम्ययि महेन्द्र ते ।
परिगृहाण मां सुमनसां पते ॥ ५ ॥
प्रतिवदेर्न मे वरद दासताम् ।
तव कृपाश्रिते मयि विवर्धताम् ॥ ६ ॥
अभृतितुम्बुरुप्रभृतिगीत ते ।
स्तुतिविधौ मदं मतिरुपेति मे ॥७॥