This page has not been fully proofread.

इन्द्रसहस्रनामस्तोत्रम्
 
अनवद्यः सम्भृताश्वो वज्रिवादद्रिवान्द्युमान् ।
दस्मो यजत्रो योधीयानकवारिर्यतङ्करः ॥ ९९ ॥
 
पृदाकुसानुरोजीयान् ब्रह्मणश्चोदिता यमः ।
वन्दनेष्ठाः पुरां भेत्ता बन्धुरेष्ठा बृहद्दिवः ॥ १०० ॥
 
वरूता मधुनो राजा प्रणेनीः पप्रथी युवा ।
उरुशंसोहवंश्रोता भूरिदावा बृहच्छ्रवाः ॥ १०१ ॥
 
माता स्तियानां वृषभो महोदाता महावधः ।
सुग्म्यः सुराधाः सत्राषाडोदतीनां नदोधुनिः ॥ १०२॥
 
अकामकर्शनः स्वर्षाः सुमृळीकः सहस्कृतः ।
पास्त्यस्य होता सिन्धूनां वृषाभोजो रथीतमः ॥ १०३ ॥
 
सखा मुनीनां जनिदाः स्वधावानसमोऽप्रतिः ।
मनस्वानध्वरो मर्यो बृबदुक्थोऽविता भगः ॥ १०४॥
 
अषाह्ळोऽरीह्ळ आदर्ता वीरं कर्ता विशस्पतिः ।
एकः पतिरिनः पुष्टिः सुवीर्यो हरिपाः सुदृक् ॥ १०५ ॥
 
एको हव्यः सनादारुगोकोवाकस्य सक्षणिः ।
सुवृक्तिरमृतोऽमृक्तः खजकृद्बलदाः शुनः ॥ १०६ ॥
 
अमत्रो मित्र आकाय्यः सुदामाब्जिन् महोमही ।
रथः सुबाहुरुशना सुनीथो भूरिदाः सुदाः ॥ १०७ ॥
 
४५