This page has not been fully proofread.

स्तोत्रग्रन्थमाला - तृतीयो भागः
 
दक्षाय्यो दस्युहाधृष्णुः दक्षिणावान् धियावसुः ।
धनस्पृद्धृषितो धाता दयमानो धनञ्जयः ॥ ९०॥
 
४४
 
दिव्यो द्विबर्हाः सन्नार्यः समर्यस्त्राः सिमः सखा ।
द्युक्षः समानो दंसिष्ठो राधसः पतिरध्रिगुः ॥ ९१ ॥
 
सम्राट् पृथिव्या ओजस्वान् वयोधा ऋतुपा ऋभुः ।
एको राजैधमानद्विडेकवीर उरुजयाः ॥ ९२ ॥
 
लोककृज्जनिताऽश्वानां जोहूत्रो जनिता गवाम् ।
जरिता जनुषां राजा गिर्वणाः सुन्वतोऽविता ॥ ९३ ॥
 
अत्कं वसानः कृष्टीनां राजोक्थ्यः शिप्रवानुरुः ।
ईड्योदाश्वानिनतमो घोरः सङक्रन्दनः स्ववान् ॥ ९४ ॥
 
जागृविर्जगतो राजा गृत्सो गोविद्धनाघनः ।
जेताऽभिभूरकूपारो दानवानसुरोऽर्णवः ॥ ९५ ॥
 
धृष्विर्दमूनास्तवसस्तवीयानन्तमोऽवृतः ।
रायोदाता रयिपतिः विपश्चिद्वृत्रहन्तमः ॥ ९६ ॥
 
अपरीतः षाळपश्चाद् दध्वायुत्कार आरितः ।
वोळावनिष्ठो वृष्ण्यावान्वृषण्वानवृकोऽवतः ॥ ९७॥
 
गर्भोऽसमष्टकाव्योयुगहिशुष्मोदधृष्वणिः ।
 
प्रत्नः पतिर्वाजदावा ज्योतिः कर्ता गिरां पतिः ॥ ९८ ॥
इति नवमं नामशतकम्