This page has not been fully proofread.

इन्द्रसहस्रनामस्तोत्रम्
 
वरेण्यो विश्वतूर्वातस्येशानो द्यौर्विचर्षणिः ।
सतीनमन्युर्गोदत्रः सद्योजातोविभञ्जनुः ॥ ८२ ॥
 
वितन्तसाय्यो वाजानां विभक्ता वस्व आकरः ।
वीरको वीरयुर्वज्रं बभ्रिर्वीरेण्य आघृणिः ॥ ८३ ॥
 
वाजिनेयो वाजसनिर्वाजानां पतिराजिकृत् ।
वास्तोष्पतिर्वर्पणीतिर्विशां राजा वपोदरः । ८४ ॥
 
विभूतद्युम्न आचक्रिरादारी दोधतो वधः ।
आखण्डलो दस्मवर्चाः सर्वसेनो विमोचनः ॥ ८५ ॥
 
वज्रस्य भर्ता वार्याणां पतिर्गोजिद्गवां पतिः ।
विश्वव्यचाः सङ्घञ्चकानः सुहार्दो जनिता दिवः ॥ ८६ ॥
 
समन्तुनामा पुरुध प्रतीको बृहतः पतिः ।
दीध्यानो दामनो दाता दीर्घश्रवस ऋभ्वसः ॥ ८७॥
 
दंसनावान्दिवः संम्राड्देवजूतो दिवावसुः ।
दशमो देवता दक्षो दुध्रोद्युम्नी द्युमन्तमः ॥ ८८ ॥
 
इत्यष्टमं नामशतकम्
 
मंहिङ्घष्ठरातिरित्थाधीर्दीद्यानो दधृषिर्दुधिः ।
दुष्टरीतुर्दुश्च्यवनो दिवोमानो दिवोवृषा ॥ ८९॥
 
४३