This page has not been fully proofread.

स्तोत्रग्रन्थमाला - तृतीयो भागः
 
कृण्वन्नकेतवे केतुं पेश: कृण्वन्नपेशसे ।
वज्रेण हत्वी महिनो मरुत्स्तोत्रो मरुद्गणः ॥ ७४॥
 
४२
 
महावीरो महाव्रातो महाय्यः प्रमतिर्मही ।
माता मघोनां मंहिष्ठो मन्युमीर्मन्युमत्तमः ॥ ७५ ॥
 
मेषो महीवृन्मन्दानो माहिनावान्महेमतिः ।
प्रक्षोमृळीको मंहिष्ठो प्रक्षकृत्वा महामहः ॥ ७६ ॥
 
मदच्युन्मर्डितामद्वा मदानां पतिरातपः ।
सुशस्तिः स्वस्तिदाः स्वर्हग्राधानामाकरः पतिः ॥ ७७॥
 
इति सप्तमं नामशतकम्
 
इषुहस्त इषां दाता वसुदाता विदद्वसुः ।
विभूतिर्व्यानाशिर्वेनो वरीयान् विश्वजिद्विभुः ॥ ७८ ॥
 
नृचक्षाः सहुरिः स्वर्वित्सुयज्ञः सुष्ठुतः स्वयुः ।
आपिः पृथिव्या जनिता सूर्यस्य जनिता श्रुतः ॥ ७९॥
 
स्पङ्क्षड्विहायाः स्मत्पुरन्धिर्वृषपर्वा वृषन्तमः ।
साधारणः सुखरथः स्वश्वः सत्राजिदद्भुतः ॥ ८०॥
 
ज्येष्ठराजो जीरदानुर्जग्मिर्वित्वक्षणो वशी ।
विधाता विश्वमा आशुर्मायी वृद्धमहावृधः ॥ ८१ ॥