This page has not been fully proofread.

इन्द्रसहस्रनामस्तोत्रम्
 
हिरण्यवर्णो हर्यश्वो हरिवर्पा हरिप्रियः ।
 
हनिष्ठो हर्यक्ष्वो हव्यो हरिष्ठा हरियोजनः ॥ ६६ ॥
 
इति षष्ठं नामशतकम्
 
सत्वासुशिप्रः सुक्षत्रः सुवीरः सुतपा ऋषिः ।
गाथान्यो गोत्रभिद्ग्रामं वहमानो गवेषणः ॥ ६७ ॥
 
जिष्णुस्तस्थुष ईशान ईशानो जगतो नृतुः ।
नर्याणि विद्वान्नृपतिः नेतानृम्णस्य तूतुजिः ॥ ६८ ॥
 
निमेघमानो नर्यापाः सिन्धूनां पतिरुत्तरः ।
नर्यो नियुत्वान्निचितो नक्षद्दाभोनहुष्टरः ॥ ६९ ॥
 
नव्यो निधाता नृमणाः सध्रीचीनः सुतेरणः ।
नृतमानो नदनुमान्नवीयान्नृतमोनृजित् ॥ ७० ॥
 
विचयिष्ठो वज्रबाहुर्वृत्रखादोवलं रुजः ।
जातूभर्मा ज्येष्ठतमो जनभक्षो जनंसहः ॥ ७१ ॥
 
विश्वाषाड्वंसगोवस्यान्निष्पाडशनिमान्नृषाट् ।
पूर्भित्पुराषाडभिषाट् जगतस्तस्थुषस्पतिः ॥ ७२ ॥
 
संवृक्समत्सुसन्धाता सुसंङ्ग्रदृक्सविताऽरुणः ।
स्वर्यः स्वरोचिः सुत्रामा स्तुषेय्यः सनजाः स्वरिः ॥ ७३ ॥
 
४१