This page has not been fully proofread.

स्तोत्रग्रन्थमाला
 
- तृतीयो भागः
 
वृषजूतिर्वृषरथो वृषभान्नो वृषक्रतुः ।
वृषकर्मा वृषमणाः सुदक्षः सुन्वतो वृधः ॥ ५७ ॥
 
४०
 
अद्रोघवागसुरहा वेधाः सत्राकरोऽजरः ।
अपारः सुहवोऽभीरुरभिभङ्गोऽङ्गिरस्तमः ॥५८ ॥
 
अमर्त्यः स्वायुधोऽशत्रुरप्रतीतोऽभिमातिषाट् ।
अमत्री सूनुरर्चत्र्यः स्मद्दिष्टिरभयङ्करः ॥ ५९॥
 
अभिनेता स्पार्हराधाः सप्तरश्मिरभिष्टिकृत् ।
अनर्वास्वर्जिदिष्कर्ता स्तोतॄणामवितोपरः ॥ ६० ॥
 
अजातशत्रुः सेनानी रुभयाव्युभयङ्करः ।
उरुगायः सत्ययोनिः सहस्वानुर्वरापतिः ॥ ६१॥
 
उग्रो गोपा उग्रबाहुरुग्रधन्वोक्थवर्धनः ।
गाथश्रवा गिरां राजा गम्भीरो गिर्वणस्तमः ॥ ६२ ॥
 
वज्रहस्तचर्षणीनां वृषभो वज्रदक्षिणः ।
सोमकामः सोमपतिः सोमवृद्धः सुदक्षिणः ॥ ६३ ॥
 
सुब्रह्मा स्थविरः सूरः सहिष्ठः सप्रथाः सराट् ।
हरिश्मशारुर्हरिवान्हरीणां पतिरस्तृतः ॥ ६४ ॥
 
हिरण्यबाहुरुर्व्यूतिर्हरिकेशो हिरीमशः ।
हरिशिप्रो हर्यमाणो हरिजातो हरिम्भरः ॥ ६५ ॥