This page has not been fully proofread.

इन्द्रसहस्रनामस्तोत्रम्
 
यज्ञवृद्धो यज्ञियानां प्रथमो यज्वनो वृधः ।
अमित्रखादोऽनिमिषो विषुणोऽसुन्वतोऽजुरः ॥ ३३ ॥
 
अक्षितोतिरदाभ्योऽर्यः शिप्रिणीवानगोरुधः ।
आश्रुत्कर्णोऽन्तरिक्षप्रा अमितौजा अरिष्टुतः ॥ ३४॥
 
इति तृतीयं नामशतकम्
 
अदृष्ट एकराडूर्ध्व ऊर्ध्वसानः सनायुवा ।
स्थिरः सूर्यः स्वभूत्योजाः सत्यराधाः सनश्रुतः ॥ ३५ ॥
 
प्रकल्पः सत्त्वानां केतुरच्युतच्युदुरुव्यचाः ।
शवसी स्वपतिः स्वोजाः शचीवानविदीधयुः ॥ ३६॥
 
सत्यशुष्मः सत्यसत्वा सूनुः सत्यस्य सोमपाः ।
दस्योर्हन्ता दिवो धर्ता राजा दिव्यस्य चेतनः ॥ ३७ ॥
 
ऋग्मियोऽर्वा रोचमानो रभोदा ऋतपा ऋतः ।
ऋजीषी रणकृद्रेवा नृत्वियो रध्रचोदनः ॥ ३८ ॥
 
ऋष्वोरायोऽवनीराजा रयिस्थानो रदावसुः ।
ऋभुक्षा अनिमानोऽश्वः सहमानः समुद्रियः ॥ ३९ ॥
 
ऋणकातिर्गिर्वणस्युः कीजः खिद्वाखजङ्करः ।
ऋजीषो वसुविद्वेन्यो वाजेषु दधृषः कविः ॥ ४० ॥
 
३७