This page has not been fully proofread.

३६
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
पुरुदत्रः पितृतमः पुरुक्षुर्भूरिगुः पणिः ।
प्रत्वाक्षाणः पुरां दर्मापनस्युरभिमातिहा ॥ २४ ॥
 
पृथिव्या वृषभः प्रत्नः प्रमन्दी प्रथमः पृथुः ।
त्यः समुद्रव्यचाः पायुः प्रकेतश्चर्षणीसहः ॥ २५ ॥
 
कारुधायाः कविवृधः कनीनः क्रतुमान्क्रतुः ।
क्षपांवस्ता कवितमो गिर्वाहाः कीरिचोदनः ॥ २६ ॥
 
क्षपावान्कौशिकः कारी राजाक्षम्यस्य गोपतिः ।
गौर्गोर्दुरो दुरोऽश्वस्य यवस्यदुर आदुरिः ॥१७॥
 
चन्द्रबुध्नश्चर्षणिप्राश्चकृत्यश्चोदयन्मतिः ।
चित्रभानुश्चित्रतमश्चम्रीषश्चक्रमासजः ॥ २८ ॥
 
तुविशुष्मस्तुविद्युम्नस्तुविजातस्तुवीमघः ।
तुविकूर्मिस्तुविम्रक्षस्तुविशग्मस्तुविप्रतिः ॥ २९ ॥
 
तुविनृम्णस्तुविग्रीवस्तुविराधास्तुविक्रतुः ।
तुविमात्रस्तुविग्राभस्तुविदेष्णस्तुविष्वणिः ॥ ३० ॥
 
तूतुजिस्तवसस्तक्वस्तुविग्रिस्तुर्वणिस्त्रदः ।
रथेष्ठस्तरणिस्तुम्रस्त्विषीमाननपच्युतः ॥ ३१ ॥
 
तोदस्तरुत्रस्तविषी मुषाणस्तविषस्तुरा ।
तितिर्वा ततुरित्राता भूर्णिस्तूर्णिस्तवस्तरः ॥ ३२ ॥