This page has not been fully proofread.

३४
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
घृष्ण्वोजा अविताधीनां धनानां सञ्जिदच्युतः ।
विहन्ता तमसस्त्वष्टा तनूपास्तरुतातुरः ॥९॥
 
त्वेषनृम्णस्त्वेषसंदृक् तुराषाडपराजितः ।
तुग्य्रावृधोदस्मतमः तुविकूर्मितमस्तुजः ॥ १० ॥
 
वृषप्रभर्मा विश्वानि विद्वानादमर्दिरस्तवाः ।
मन्द्रो मतीनां वृषभो मरुत्वान्मरुतामृषिः ॥११॥
 
महाहस्ती गणपतिवर्धियं जिन्वो बृहस्पतिः ।
माहिनो मघवा मन्दी मर्कोऽर्को मेधिरो महान् ॥१२॥
 
इति प्रथमं नामशतकम्
 
प्रतिरूपः परोमात्रः पुरुरूपः पुरुष्टुतः ।
पुरुहूतः पुरः स्थाता पुरुमायः पुरन्दरः ॥ १३ ॥
 
इति द्वितीयशतकप्रथमाष्टकेन सहाष्टोत्तरं नामशतकम् ।
 
पुरुप्रशस्तः पुरुकृत् पुरां दर्ता पुरूतमः ।
पुरुगूर्तः पृत्सुजेता पुरुवर्पाः प्रवेपनी ॥१४॥
 
पप्रिः प्रचेताः परिभूः पनीयानप्रतिष्कुतः ।
प्रवृद्धः प्रवयाः पाता पूषण्वानन्तरा भरः ॥ १५॥