2023-11-19 19:22:08 by ambuda-bot
This page has not been fully proofread.
इन्द्रसहस्रनामस्तोत्रम्
इन्द्रो देवतमोऽनीळः सुपर्णः पूर्णबन्धुरः ।
विश्वस्य दमिता विश्वस्येशानो विश्वचर्षणिः ॥ १॥
विश्वानि चक्रिर्विश्वस्मादुत्तरो विश्वभूर्बृहन् ।
चेकितानो वर्तमानः स्वधयाऽचक्रया परः ॥ २॥
विश्वानरो विश्वरूपो विश्वायुर्विश्वतस्पृथुः ।
विश्वकर्मा विश्वदेवो विश्वतो धीरनिष्कृतः ॥ ३॥
त्रिषुजातस्तिग्मशृङ्गो देवो ब्रध्नोऽरुषश्चरन् ।
रुचानः परमो विद्वान् अरुचो रोचयन्नजः ॥ ४॥
ज्येष्ठो जनानां वृषभो ज्योतिर्ज्येष्ठं सहोमहि ।
अभिक्रतूनां दमिता धर्ता विश्वस्य कर्मणः ॥ ५॥
धर्ता धनानां धातॄणां धाता धीरो धियेषितः ।
यज्ञस्य साधनो यज्ञो यज्ञवाहा अपामजः ॥ ६॥
यज्ञं जुषाणो यजतो युक्तग्राव्णोऽवितेषिरः ।
सुवज्रश्च्यवनो योद्धा यशसो यज्ञियो यहुः ॥ ७॥
अवयाता दुर्मतीनां हन्ता पापस्य रक्षसः ।
कृशस्य चोदिता कृत्तुः कृतब्रह्मा धृतव्रतः ॥ ८॥