2023-11-19 19:22:07 by ambuda-bot
This page has not been fully proofread.
शिवसप्ततिनामस्तोत्रम्
देवानां श्रेष्ठ ईशानो भुवनस्याजरो वसुः ।
स्वधावान्सुहवो बभ्रुर्द्विबर्हा अरुषः कविः ॥ १॥
जलाषभेषजो भूरिभूरेर्दाता भिषक्तमः ।
स्थिरधन्वा क्षयद्वीरो रुद्रो गाथपतिः स्विषुः ॥ २॥
वेधाः सुधन्वा क्षिप्रेषुर्मरुत्वानसुरस्तवाः ।
त्वेषस्तिग्मायुधस्तव्यान्वज्रबाहुस्तवस्तमः ॥ ३ ॥
उपहनुः कल्मलीकी सुषुम्नो गर्तसद्युवा ।
दिवो वराहो वृषभो वंकुः स्विक्वानृदूदरः ॥ ४ ॥
स्वपिवातश्चेकितानः सुशिप्रः स्वयशाः श्रुतः ।
श्वित्सन्नृष्वः स्ववानेव यावभिः पशुपाः शुचिः ॥ ५॥
सहमानो मेधपतिः प्रचेताः सत्पतिबृहन् ।
पुरुरूपः कपर्द्युग्रः सुगन्धिः पुष्टिवर्धनः ॥ ६ ॥
शुक्रोऽषाळो यज्ञसाधस्त्र्यम्बको मरुतां पिता ।
मीढ्वान्मीळ्हुष्टमो देवो भुवनस्य पिता शिवः ॥७॥
इतीयं सप्ततिर्नाम्नां रुद्रस्य निगमोद्धृता ।
सर्वपापप्रशमनी सर्वाभीष्टप्रदायिनी ॥ ८ ॥
॥ इति वासिष्ठसङ्कलितं शिवसप्ततिनामस्तोत्रम् ॥