2023-11-19 19:22:06 by ambuda-bot
This page has not been fully proofread.
शिवस्तवराजः
नेता मम शिवस्त्राता मम शिवः ।
राजा मम शिवो दैवं मम शिवः ॥ ६८ ॥
चक्षुर्मम शिवः श्रोत्रं मम शिवः ।
स्वान्तं मम शिवो बुद्धिर्मम शिवः ॥ ६९ ॥
वाणी मम शिवः प्राणो मम शिवः ।
आत्मा मम शिवः सर्वं मम शिवः ॥ ७० ॥
अन्यप्रमृदितं स्वं देशमवितुम् ।
वीर्यं मम धियः संवर्धय विभो ॥ ७१ ॥
गायत्रमनघस्तोत्रं गणपतेः ।
एतच्छृणु दयायुक्तः पशुपते ॥ ७२ ॥
२९
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनो-
र्गणपतेः कृतिः शिवस्तवराजः समाप्तः ॥
नेता मम शिवस्त्राता मम शिवः ।
राजा मम शिवो दैवं मम शिवः ॥ ६८ ॥
चक्षुर्मम शिवः श्रोत्रं मम शिवः ।
स्वान्तं मम शिवो बुद्धिर्मम शिवः ॥ ६९ ॥
वाणी मम शिवः प्राणो मम शिवः ।
आत्मा मम शिवः सर्वं मम शिवः ॥ ७० ॥
अन्यप्रमृदितं स्वं देशमवितुम् ।
वीर्यं मम धियः संवर्धय विभो ॥ ७१ ॥
गायत्रमनघस्तोत्रं गणपतेः ।
एतच्छृणु दयायुक्तः पशुपते ॥ ७२ ॥
२९
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनो-
र्गणपतेः कृतिः शिवस्तवराजः समाप्तः ॥