2023-11-19 19:22:07 by ambuda-bot
This page has not been fully proofread.
२८
स्तोत्रग्रन्थमाला - तृतीयो भागः
सङ्घर्षणवशाद्राजत्यलमयम् ।
पानीयमुचितं प्राहुर्हरिहयम् ॥ ५९ ॥
तारः स गगने न त्वेव मरुताम् ।
सर्वत्र च महान् प्राणो जनिमताम् ॥ ६० ॥
तस्यैव गगने प्राणस्य चरतः ।
भङ्गाः पुनरिमे वाताः कुमभितः ॥ ६१ ॥
रुद्रः स निनदन् राजन्त्स मघवा ।
वातः स विचरन् नित्यं दिवि युवा ॥ ६ ॥
एवं गुणवशादेकस्य बहुता ।
तारात्मकवपुर्दृष्ट्या निगदिता ॥ ६३ ॥
केचित्पशुपतिं शक्रं च पवनम् ।
देवत्रयमिति प्राहुर्गुणवशात् ॥ ६४॥
व्याप्तो दिवि सतश्चिद्वह्निरतुलः ।
नामान्तरवशात्ताराग्निरमलः ॥ ६५ ॥
आक्रम्य सकलं भान्तं बहुबलम् ।
गायामि विमलं चिद्वह्निमतुलम् ॥ ६६ ॥
मित्रं मम शिवो बन्धुर्मम शिवः ।
तातो मम शिवो माता मम शिवः ॥ ६७॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
सङ्घर्षणवशाद्राजत्यलमयम् ।
पानीयमुचितं प्राहुर्हरिहयम् ॥ ५९ ॥
तारः स गगने न त्वेव मरुताम् ।
सर्वत्र च महान् प्राणो जनिमताम् ॥ ६० ॥
तस्यैव गगने प्राणस्य चरतः ।
भङ्गाः पुनरिमे वाताः कुमभितः ॥ ६१ ॥
रुद्रः स निनदन् राजन्त्स मघवा ।
वातः स विचरन् नित्यं दिवि युवा ॥ ६ ॥
एवं गुणवशादेकस्य बहुता ।
तारात्मकवपुर्दृष्ट्या निगदिता ॥ ६३ ॥
केचित्पशुपतिं शक्रं च पवनम् ।
देवत्रयमिति प्राहुर्गुणवशात् ॥ ६४॥
व्याप्तो दिवि सतश्चिद्वह्निरतुलः ।
नामान्तरवशात्ताराग्निरमलः ॥ ६५ ॥
आक्रम्य सकलं भान्तं बहुबलम् ।
गायामि विमलं चिद्वह्निमतुलम् ॥ ६६ ॥
मित्रं मम शिवो बन्धुर्मम शिवः ।
तातो मम शिवो माता मम शिवः ॥ ६७॥