2023-11-19 19:22:06 by ambuda-bot
This page has not been fully proofread.
शिवस्तवराजः
यद्यप्यखिलानामात्मा गुरुरीशः ।
उक्तो मरुतां तु प्राथम्यत एषः ॥ ५१ ॥
अभ्रे विचरन्तं भान्तं निनदन्तम् ।
अस्मत्पितरं तं वन्दे भगवन्तम् ॥ ५२॥
यान्तं पवमानं भान्तं मघवानम् ।
नाके निनदन्तं गायन्ति शिवं तम् ॥ ५३ ॥
भातो गगनाग्नेर्यातः पवनस्य ।
तारस्य च रूपं नानेकमपापम् ॥५४॥
चतुर्थो वसुमतीवर्गः
नित्यं स्वरति यो व्याप्याभ्रमखिलम् ।
गायन्ति कवयस्तं तारममलम् ॥ ५५॥
ताराह्वयवपुः शम्भोरभयदम् ।
भानोः किरणवद्वैभूतिकमिदम् ॥ ५६ ॥
तं पुष्करगुणं गायन्तु बहवः ।
स त्वग्निरजरो दिव्यः शिवरवः ॥ ५७॥
यद्रोदिति वियद्देशेऽनवरतम् ।
भद्रं बुधगणो रुद्रं भणति तम् ॥५८॥
२७
यद्यप्यखिलानामात्मा गुरुरीशः ।
उक्तो मरुतां तु प्राथम्यत एषः ॥ ५१ ॥
अभ्रे विचरन्तं भान्तं निनदन्तम् ।
अस्मत्पितरं तं वन्दे भगवन्तम् ॥ ५२॥
यान्तं पवमानं भान्तं मघवानम् ।
नाके निनदन्तं गायन्ति शिवं तम् ॥ ५३ ॥
भातो गगनाग्नेर्यातः पवनस्य ।
तारस्य च रूपं नानेकमपापम् ॥५४॥
चतुर्थो वसुमतीवर्गः
नित्यं स्वरति यो व्याप्याभ्रमखिलम् ।
गायन्ति कवयस्तं तारममलम् ॥ ५५॥
ताराह्वयवपुः शम्भोरभयदम् ।
भानोः किरणवद्वैभूतिकमिदम् ॥ ५६ ॥
तं पुष्करगुणं गायन्तु बहवः ।
स त्वग्निरजरो दिव्यः शिवरवः ॥ ५७॥
यद्रोदिति वियद्देशेऽनवरतम् ।
भद्रं बुधगणो रुद्रं भणति तम् ॥५८॥
२७