This page has not been fully proofread.

२६
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
कार्यत्रिकमेतत्कर्तुं बहवो नो ।
एकस्य तु कार्यैर्नामानि बहूनि ॥ ४२ ॥
 
क्ष्मार्केन्दुपतिभ्यः त्रिभ्यः पुरुषेभ्यः ।
सर्गस्थितिभङ्गा ख्यातिः खलु भाक्ता ॥४३॥
 
तेष्वन्यतमं यत् कार्यत्रिकहेतुम् ।
केचिळवते सा भाक्ता न किमुक्तिः ॥ ४४ ॥
 
अध्यक्षपरोऽयं साक्षादिव वादः ।
एका यदहन्ता तस्यापि परस्य ॥ ४५ ॥
 
मेयः शिव सर्वो गोलात्मकलोकः ।
सीमारहितोसावेकस्तव नाकः ॥ ४६ ॥
 
लक्ष्मीपतिसङ्ख्या यावद्रविलोकम् ।
गौरीपतिरेको राजत्यधिनाकम् ॥४७॥
 
एकैक इनः स्यात् प्रत्यब्जभवाण्डम् ।
सर्वाण्डगमेकं प्राहुः खमखण्डम् ॥ ४८॥
 
आत्मानमुताहो तातं खचराणाम् ।
आहोस्विदधीशं ध्यायाम सुराणाम् ॥ ४९॥
 
तं व्योमचराणां जीवं पवमानम् ।
तातं शिवमाहुर्नाथं मघवानम् ॥ ५०॥