2023-11-19 19:22:06 by ambuda-bot
This page has not been fully proofread.
शिवस्तवराजः
अभ्रे ये मरुतः शुभ्रे भूभृति ते ।
क्लेशानां दमना ईशान प्रमथाः ॥ ३४॥
दासोऽहं मरुतः पातारो जगतः ।
भूता वा भवतां स्तोता पापहृताम् ॥ ३५॥
स्तूयन्तां सुहृदः सर्वे सर्वविदः ।
ईशानानुचराः सर्वाभीष्टकराः ॥ ३६ ॥
तृतीयः तनुमध्यावर्गः
हर्ता दुरितानां धर्ता जगतां नः ।
भर्ता गुहमातुः कर्तास्तु शुभस्य ॥ ३७॥
पाता भुवनानां धाता च विधाता ।
नेता प्रमथानां त्राता भवतान्नः ॥ ३८॥
कर्ता भुवनानां भर्ताऽपि च हर्ता ।
ख्यातोऽवतु देवस्तातो मरुतां नः ॥ ३९॥
कर्तुं स्वरतीदं भर्तुं प्रविभाति ।
हर्तुं य उदास्ते तर्तुं प्रणुमस्तम् ॥४०॥
कर्तुं भुवनं वाग्भर्तुं भवभाते ।
हर्तुं खलु भद्रा योगामलनिद्रा ॥ ४१ ॥
२५
अभ्रे ये मरुतः शुभ्रे भूभृति ते ।
क्लेशानां दमना ईशान प्रमथाः ॥ ३४॥
दासोऽहं मरुतः पातारो जगतः ।
भूता वा भवतां स्तोता पापहृताम् ॥ ३५॥
स्तूयन्तां सुहृदः सर्वे सर्वविदः ।
ईशानानुचराः सर्वाभीष्टकराः ॥ ३६ ॥
तृतीयः तनुमध्यावर्गः
हर्ता दुरितानां धर्ता जगतां नः ।
भर्ता गुहमातुः कर्तास्तु शुभस्य ॥ ३७॥
पाता भुवनानां धाता च विधाता ।
नेता प्रमथानां त्राता भवतान्नः ॥ ३८॥
कर्ता भुवनानां भर्ताऽपि च हर्ता ।
ख्यातोऽवतु देवस्तातो मरुतां नः ॥ ३९॥
कर्तुं स्वरतीदं भर्तुं प्रविभाति ।
हर्तुं य उदास्ते तर्तुं प्रणुमस्तम् ॥४०॥
कर्तुं भुवनं वाग्भर्तुं भवभाते ।
हर्तुं खलु भद्रा योगामलनिद्रा ॥ ४१ ॥
२५