2023-11-19 19:22:05 by ambuda-bot
This page has not been fully proofread.
२४
स्तोत्रग्रन्थमाला - तृतीयो भागः
दृष्ट्या सा भुवनं सृष्ट्वा शास्तुमिदम् ।
हैमं दिव्यवपुर्जग्राहेति विदुः ॥ २५ ॥
सूक्ष्मं स्यादगुणं हैमं स्यात्सगुणम् ।
देवस्यादिविभोरेवं द्वे वपुषी ॥ २६ ॥
भाषामात्रवपुः पूर्वं स्यादवपुः ।
अन्यद्भक्तिमतां बुद्धिग्राह्यवपुः ॥ २७॥
बिभ्रद्भाति जगत्साम्राज्यं गगने ।
हैमोऽसौ पुरुषः सिद्धानां भुवने ॥ २८ ॥
वाचा नव्यविदामध्यक्षः स परः ।
इन्द्रः पूर्वविदामस्माकं तु हरः ॥ २९ ॥
प्रत्युष्णांशुतया तन्वा बिम्बतया ।
प्रत्यण्डं प्रभुतां धत्ते सोऽद्भुतया ॥ ३० ॥
अभ्रे राजति यो बिभ्राणो भुवनम् ।
शुभ्रागे च विभुः स भ्राजिष्णुयशाः ॥ ३१ ॥
गौरोऽयं गगने शुक्लः शुभ्रनगे ।
एकेयन्तु भिदा मायारूपकृता ॥३२॥
हैमं भूतपते शुकुं वा शिव ते ।
रूपं यः स्मरति प्राज्ञोऽयं जयति ॥ ३३ ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
दृष्ट्या सा भुवनं सृष्ट्वा शास्तुमिदम् ।
हैमं दिव्यवपुर्जग्राहेति विदुः ॥ २५ ॥
सूक्ष्मं स्यादगुणं हैमं स्यात्सगुणम् ।
देवस्यादिविभोरेवं द्वे वपुषी ॥ २६ ॥
भाषामात्रवपुः पूर्वं स्यादवपुः ।
अन्यद्भक्तिमतां बुद्धिग्राह्यवपुः ॥ २७॥
बिभ्रद्भाति जगत्साम्राज्यं गगने ।
हैमोऽसौ पुरुषः सिद्धानां भुवने ॥ २८ ॥
वाचा नव्यविदामध्यक्षः स परः ।
इन्द्रः पूर्वविदामस्माकं तु हरः ॥ २९ ॥
प्रत्युष्णांशुतया तन्वा बिम्बतया ।
प्रत्यण्डं प्रभुतां धत्ते सोऽद्भुतया ॥ ३० ॥
अभ्रे राजति यो बिभ्राणो भुवनम् ।
शुभ्रागे च विभुः स भ्राजिष्णुयशाः ॥ ३१ ॥
गौरोऽयं गगने शुक्लः शुभ्रनगे ।
एकेयन्तु भिदा मायारूपकृता ॥३२॥
हैमं भूतपते शुकुं वा शिव ते ।
रूपं यः स्मरति प्राज्ञोऽयं जयति ॥ ३३ ॥