This page has not been fully proofread.

स्तोत्रग्रन्थमाला - तृतीयो भागः
 
किं यागैरतिदारुणेन तपसा किं वा किमभ्यर्चनैः
एका लोकहितङ्करी विजयते मुक्तेरुपायः परः ।
कामारे करुणानिधे पशुपते भूतेश गौरीपते
शम्भो शङ्कर चन्द्रचूड जगतां नाथेति नामावली ॥ १०० ॥
 
२०
 
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः
गणपतेः कृतिः शिवशतकं समाप्तम् ॥