This page has not been fully proofread.

शिवशतकम्
 
चित्रं कन्दुकखेलनं वसुमतीलोकस्य तिर्यग्भ्रमिः
को वा भाषितुमीश ते प्रभवति स्वल्पश्रुतो वैभवम् ॥ ९४ ॥
 
संश्लिष्यन्प्रकृतिं रजोगुणमयीं देहे विराड्भण्यसे
बिम्बेऽर्कस्य हिरण्यगर्भ उदितः शुद्धां श्रितः सात्त्विकीम् ।
ईशस्त्वं परतामसीमुपगतो गुप्तां नभस्युच्यसे
धेनुः श्रीर्गिरिजेति शाक्तसमये यस्यास्त्रिधा विश्रुतिः ॥ ९५॥
 
ऊर्ध्वं भासि हिरण्मयाङ्गसकलप्राणे रवेर्मण्डले
लोके च ध्वनिधाम्नि रुद्रमरुतामन्तः समुद्द्योतसे ।
अस्माकं हृदयेषु च क्षितिजुषां वैश्वानर भ्राजसे
शेषं सर्वमिदं पचन्नपि पर व्याप्तोऽभितो वर्तसे ॥ ९६ ॥
 
भूतत्त्वं तव शैलजात्वमपि ते शक्तेः प्रभो पण्डिताः
चातुर्येण समर्थयन्ति युवयोर्लीलाशरीरग्रहम् ।
केचिद्विग्रहकल्पनं जडधियामर्थेकृतं साधय-
न्त्यन्येंऽशावतरं भणन्ति भणितं भाक्तं परे मन्वते ॥ १७ ॥
 
माहात्म्यं तव व क्तु कः पशुपते यद्रोमतुल्यं महत्
ब्रह्माण्डं चरितानि वेद तव कः सर्वान्तरो भासि यः ।
यागं को विदधातु ते वरदकैर्यस्य स्वमेवाखिलं
नामैकं तव सूरिभिः प्रकटितं ङेन्तं हृदादि श्रये ॥ ९८ ॥
 
द्राक्षामाक्षिपति क्षिणोति मधुनो दर्पं सितां निन्दति
क्षीरं नो बहु मन्यते प्रशमयत्यग्यं सुधाया यशः ।
किं वान्यत्कथयाम तं च घृणया कान्ताऽधरं वीक्षते
प्राप्तो जन्मसभक्तवक्त्रकमलान्नामध्वनिर्नाथ ते ॥ ९९ ॥
 
१९