This page has not been fully proofread.

१८
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
व्याप्तो दिवि सतश्चिद्वह्निरतुलः ।
नामान्तरवशात्ताराग्निरमल: ॥ ८९ ॥
 
आक्रम्य सकलं भान्तं बहुफलम् ।
गायामि विमलं चिद्वह्निमतुलम् ॥ ९०॥
 
अथ दशमं शार्दूलविक्रीडितदशकम्
 
यः प्रज्ञानमयो यमाहुरजरं येनाभितः स्थीयते
यस्मै कर्मसमर्पयन्ति मुनयो यस्मात्परो नापरः ।
यस्यासावसुरम्बरे तपति नः प्राणान्दधानो रविः
यस्मिन्प्रोतमिदं समस्तभुवनं कस्मैचिदस्मै नमः ॥ ९१ ॥
 
कन्याशीतगिरेरियं सुललितैर्गात्रैरियं भामिनी
मातेयं गजवक्त्रतारकजितोरित्यल्पदृष्टेः कथाः ।
सर्वस्मिन्नचरे चरे च विभवादेका परा जाग्रती
शक्तिः काचन सा विचाररसिकैराराध्यते नाथ ते ॥ ९२ ॥
 
केषाञ्चित्स हिरण्मयो मतिमतां कृष्णः परेषां विदा-
मन्येषां विदुषां सुधांशुधवलस्त्रेधा परेषां परः ।
केऽपि स्थूलदृशां जगत्पतिवपुर्ध्यानाय कल्पा इमे
सत्यं तु ज्वलदप्यबाध्यमभितो गूढं गुहायामिव ॥ ९३ ॥
 
सौरं मण्डलमुज्ज्वलं तव तपः श्वासश्चरन्मारुतो
बिम्बं मेचकतोयजातसुहृदो मन्दस्मितं सुन्दरम् ।