2023-11-19 19:22:04 by ambuda-bot
This page has not been fully proofread.
शिवशतकम्
अथ नवमं वसुमतीदशकम्
नित्यं स्वरति यो व्याप्याभ्रमखिलम् ।
गायन्ति कवयस्तं तारममलम् ॥ ८१॥
ताराह्वयवपुः शम्भोरभयदम् ।
भानोः किरणवद्वैभूतिकमिदम् ॥ ८२ ॥
तं पुष्करगुणं गायन्तु बहवः ।
स त्वरिजरो दिव्यः शिवरवः ॥ ८३ ॥
यद्रोदितिवियद्देशेऽनवरतम् ।
भद्रं बुधगणो रुद्रं भणति तम् ॥८४॥
तारः स गगने न त्वेव मरुताम् ।
सर्वत्र च महान्प्राणो जनिमताम् ॥ ८५ ॥
तस्यैव गगने प्राणस्य चरतः ।
भङ्गाः पुनरिमे वाताः कुमभितः ॥ ८६॥
।
रुद्रः स निनदन राजंत्स मघवा ।
वातः सविचरन्नित्यं दिवि युवा ॥ ८७ ॥
एवं गुणवशादेकस्य बहुता ।
उग्रस्य जगतां राज्ञो निगदिता ॥ ८८ ॥
१७
अथ नवमं वसुमतीदशकम्
नित्यं स्वरति यो व्याप्याभ्रमखिलम् ।
गायन्ति कवयस्तं तारममलम् ॥ ८१॥
ताराह्वयवपुः शम्भोरभयदम् ।
भानोः किरणवद्वैभूतिकमिदम् ॥ ८२ ॥
तं पुष्करगुणं गायन्तु बहवः ।
स त्वरिजरो दिव्यः शिवरवः ॥ ८३ ॥
यद्रोदितिवियद्देशेऽनवरतम् ।
भद्रं बुधगणो रुद्रं भणति तम् ॥८४॥
तारः स गगने न त्वेव मरुताम् ।
सर्वत्र च महान्प्राणो जनिमताम् ॥ ८५ ॥
तस्यैव गगने प्राणस्य चरतः ।
भङ्गाः पुनरिमे वाताः कुमभितः ॥ ८६॥
।
रुद्रः स निनदन राजंत्स मघवा ।
वातः सविचरन्नित्यं दिवि युवा ॥ ८७ ॥
एवं गुणवशादेकस्य बहुता ।
उग्रस्य जगतां राज्ञो निगदिता ॥ ८८ ॥
१७